SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ मेरहस्यं हृदये निवेश्य शङ्खः सार्थेन सह पुरोऽचालीत् , । तस्मिंश्च कियन्तमपि पन्थानमतीते निशीथे भीमपल्लीपतेर्धाटी निपत्य कांश्चित्पुंसो गतासून् कांचिद्विवसनान् कांश्चिदुप्रासितान् कांचित्प्रहारजर्जरितान् कामिनन्दिनम कार । शबरा अप्यकृत्यकृत आत्मना दशमं शङ्ख बन्दीकृत्य भीमपल्लीपतेर्दर्शयाकुः । सोऽपि तानादिदेश-भो एतान् * दशापि देव्या बलये तावत्स्थापयत, यावदेकादशः पुमान् नावाप्यते, तथैव तैर्विहिते विवेकनिसुषः शुड एकाग्र-सं मनाः पञ्चपरमेष्ठिनमस्कारमहामत्रं स्मरन्नानन्दमय एवातिष्ठत् । प्रासे त्वेकादशे पुंस्पष्टमीदिने भीमस्ता चण्डिकायतने । समानाय्य तामभ्यर्च्य तदने तानीकृत्यासिलतां निसूत्र्य स्माह-अरे मया भूताभिभूतस्य सुतस्य जीवितव्यनिमि चामुण्डाया एकादशभिमुण्डैलिं दास्यामीत्यभिग्रहो गृहीतोऽभूत् , सोऽय भवन्मुण्डैरखण्डीभविष्यति, अतोऽधुना । स्मरतेष्टदैवतम् , मुञ्चत जीवितव्याभिलाष, एष निष्कृपः कृपाणो भवद्गलकन्दलच्छेदनाय प्रवर्तमानोऽसीति यावदजवादीत् , तावत्पल्लीलोकस्त्वरितमागत्योथैः पूचकार, मोभो धावत धावत क्षिप्रं कुमारो भूतेन मरणदशामापादित इति श्रुत्वा भीमो विहस्तस्तांस्तथैव मुक्त्या सुतसविधमियाय । ततः शलो मत्रराजप्रभावं जानानो मिल्लमेकमाह स्प-15 भो भिल्ल ! पल्लीपतिसुतं सजीकरोमि मत्रप्रभावेण यदि तदादेशः स्यात् , तेनापि पल्लीशाय निवेदितम् , सोऽपि तमाकार्य स बहुमानमभ्यर्थयामास,-देहि मे पुत्रभिक्षा । ततः स विधिवन्मण्डलमापूर्य पल्लीपतिसुतं खपुरो निवेश्य । विहितपद्मासनस्तन्मस्तके हस्तं निधाय पूरितनिर्दम्भकुम्भकाशुगो हत्कमलकर्णिकायामहतो न्यस पत्रेषु सिद्धादींश्च ।
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy