________________
शालिकाम् ॥७९॥ धिषणा धिषणस्यापि, जयिन्यस्पेति पूर्जनः । लक्ष्मीधरधराधीशपुरो वनजमस्तवीत् ॥८०॥ तद्बुद्धिरजितो राजा, समाकार्य स्वसन्निधौ । तस्मै प्रसादं पञ्चाङ्ग, दत्वा नाच बरं वृणु ॥ ८१॥ सागरश्रेष्ठिनं तत्रानाय्य, काननसूरपि । नृपं व्यजिज्ञपद्देव, दीयतामस्य मद्वरः ॥ ८२ ।। लक्ष्मीधरधरेशोऽपि, वनसूवचसा मुदा । सागरश्रेष्ठिनः । श्रेष्ठिपदं तदुचितं ददौ ॥ ८३ ॥ राज्ञोऽनेन पदं मां, दापितं तदमुष्य हि । अहमप्यात्मनः कन्या, दत्वाऽस्म । | साङ्किलानृणः ॥ ८४ ॥ इति ध्यात्वा तथाऽभ्यर्थ्य, कन्यां यच्छन् स सागरः । जगदे बनपुत्रेण, ताताने मेऽस्ति । वल्लभा ॥ ८५ ॥ प्रतिपन्नः पिता त्वं मेऽतस्ते कन्या मम वसा । पदं दत्ते बसन्मार्गे, सुविचारः कथं ? पुमान् ॥८६॥ अन्यदा यार्द्धियात्रायै, पोतान् प्रगुणितानसौ । विलोक्य सागरं माह, तात ? वित्तं प्रयच्छ मे ॥ ८७॥ तल्लाभोऽपि त्वया प्रायः, केवलं कौतुकं मम । ततः स सागरसस्मै, लक्षमेकमदाद्धनम् ॥ ८८ ॥ भूरिशो व्रीहयश्चाष्टौ, महिष्यो मुग्धदुग्धदाः । पदार्थाः शर्कराचन्द्र-पूगनागलतादयः ॥ ८९ ॥ मुशलोदूखले यत्राष्टकं ब्रीहेश्च पिष्टये । रन्धनाय ! तथा स्थाल्यो, वस्तुभोगोपयोगि च ॥९० ॥ शस्त्राणि वरवस्त्राणि, भृत्याभृत्याष्टकं पृथक् । अङ्गशुश्रूपिकाचा, वृद्धा खेका पुरन्धिका ॥ ९१ ॥ सप्तश्वेतपटोपेतः, पोतो भाटककर्मणा । एतानि तेनोपात्तानि, लक्षकद्रविणव्ययात् । ॥ ९२ ॥ चतुर्भिः कलापकम् । महेभ्यैरपरैर्यानपात्राणि विविधैरपि । ऋयाणकैरपूर्यन्त, परतीरोपयोगिभिः ॥ ९३ ॥ माराममूस्तु सर्वेषां, हसतां पुरवासिनाम् । समक्षं स्थापयामास, बीयादि निजवाहने ॥९४ ॥ ततः सागरमापुच्छ्य,