________________
वरेण च । सिन्धुरो नोद्धतः पवादुपायैर्विहितैरपि ॥६५॥ पङ्कानिष्काशयत्येनं, गजं यस्तस्य वाञ्छित्तम् । ददामीति । नृपो द्रो, पटहं पट्वीवदत् ॥ ६६ ॥ सच्छ्रुत्वा वनजोऽस्त्राक्षीपट पदुधीसतः । उपभूपमयं निन्ये, धराधिपति-11 | पूरुषैः ॥ ६७ ॥ नृपं प्रणम्य स स्माह, राजन् ! पट्टगजोदूतौ । सहायिनं मदादेश-करं मत्रिणमादिश ॥ ६८ ॥ ततः पश्रियः सूनुनरेन्द्रादिष्टमन्त्रिणा । संत्रा तत्र ययौ यत्र, निमनोऽस्ति महागजः ॥ ६९ ॥ आकण्ठभन्नं सीत्कारान्मुचन्तमवलाङ्गकम् । जामुलीस्तम्भितं नागमिव नागं ददर्श सः ॥ ७० ॥ मत्रिणा तस्य नागस्य, शतहसमितां भुवम् । पक्केष्टकाभिरभितो, बन्धयामासिवानसौ ॥७१॥ धिषणागोचरं कार्य, कथं कर्तति ? सादरम् । विदुरैर्वीक्ष्यमाणोसा-यादिशन्मत्रिपुङ्गवम् ॥ ७२ ॥ यदमुष्य गजेन्द्रस्य, बलसम्पत्तिहेतवे । शलक्याघशनं देहि, तेनापि विदधे तथा ॥७३॥ तद्गजाध्यासितं स्थानं, सरसो यनसूस्ततः । सारिणीवारिणा पूर्व, तूर्ण कारयति स्म सः ।। ७४ ॥ सुधीनिर्मापितोदारस्फारशृङ्गारसारया । करिण्या करिणं खीय-करेणास्पर्शयच्छनैः ।। ७५ ॥ शल्लक्या अशनोद्भूत-15 |बलो मदकलोऽथ सः । जलाप्लावितजंबालबन्धमुक्तोऽभवद्गतम् ॥ ७६ ॥ वशागस्पर्शसातस्मरोल्लासमहोद्यमः । तां रिरं सूरसौ हती, समुत्तस्थौ शनैः शनैः ॥७७ ॥ अरे निपादिनो! नीरान्मन्दं कृषत हस्तिनीम् । तैरप्येवं कृते दन्ती, तां स्मरोद्रेकतोऽन्वगात् ॥ ७८ ॥ आकृष्टिविद्ययेवेत्या-कृष्यमाणं मताजम् । वनजो जनयंश्चित्रं, निनाय गज
१ समं.