________________
ततः क्षितिपतिरलतसिंहासनो जनरपृच्छचत-देव : किमेतदाश्चर्यम् एतच्छ्रवणायोत्के अस्मच्छवणे तत्प्रसद्य समादिश्यतां, ततो नृपोऽवोचत्-हंहो श्रूयतां सावधानमानसाः-अस्ति श्रीवल्लिसमुल्लासनघनाघनं विजयवर्द्धनं नाम
नगरं, तत्र शत्रुद्विपवित्रासनशार्दूलः शार्दूलो नाम नृपः, तस्य सर्वजनजनितानन्दा आनन्दा नाम पट्टमहादेवी, त-12 ॥ योर्जगजनमनस्तापोपशमनहरिचन्दनश्चन्दनो नाम नन्दनः, तस्य च पुरोहितसुतविष्णुना मत्रितनयेन सुधिया श्रेष्ठि-18 | तनूजेन शह्वेन च सह सौहार्दमाशैशवमसङ्ख्यसौख्यजनकमजनि । सोऽन्यदा राजकुमारो गुणैरिव तैर्मित्रैरनुगतो वापालिकेलिश्रान्तो विश्रान्तो रसालशालतले, तत्र चैक कापालिकं विलोक्य ननाम, सोऽप्याशीर्वादमदात्-निचारचलावण्यविडम्बितमनोभव ! । नागलोकाङ्गनानाथो, भव भूमीन्द्रनन्दन ! ॥१॥ तदाशीर्वचः श्रुत्वा कुमारस्तं व्याज
हार-महर्षे ! मम मनुष्यलोकवासिनः कुतो भवदाशीर्वादसत्यता सम्भयिता ?, त्रिदण्ड्यप्यवादीत्-कुमार ! मैवं वादी, दिममाशीर्वादः संयायेव, तब मित्रसहायस्य साधकधुरन्धरस्य अथवा मयि निर्विकल्पे कल्पज्ञेच किं नाम दुःसाधं?, (कार्य
परं देशान्तरविलोकनं भवता) ते तु कापुरुषा एव ये नाम नानाश्चर्यधरां धरां नालोकयन्ति यतः-गोष्ठावैः किमु तेगेंहेनर्दिभिः कूपदर्दुरैः । ये निश्शेषां न वीक्षन्ते, नानाचर्यमयीं महीम् ॥ १॥ ततः कापालिकवचनरचनाप्रपञ्चचन्द्रोदयेनसमुल्लुलास भूवासयसुतमानसे रागसागरः । चन्दनस्तं सत्कृत्य विसृज्य च खागारमगात् । अथ सुहत्सहायः कुमारो रजन्यां गत्वा नागानासङ्गमोपायंकापालिकं पप्रच्छ।सोऽप्यूचे-कुमार। शृणु, इह महीमहेलास्तनोपमानमातन्वानो वि