________________
मालालोलम् ॥ ९८६ ॥ विषयामिषसंलुब्धा मन्यन्ते शाश्वतं जगत् । आयुर्जलधिकल्लोललोलमालोकयन्ति न ॥ १८७ ॥ देशनान्ते समुत्थायाप्राक्षीद्राजा मुनिप्रभुम् । आयुर्मे कियदस्तीति ?, केवल्यपि जगावथ ॥ १८८ ॥ नवप्रहरमानं ते, समस्त्यायुर्नरेश्वर । । श्रुत्वेति कम्पमानाङ्गो, मरणात्प्रविभाय सः ॥ १८९ ॥ भूयांसो हि मया वर्षा, लहिता उन्मदिष्णुना । शरणं कं प्रपद्येऽहमधुना मृत्युसाद्भवन् ? ॥ १९० ॥ एवं चिन्तयतस्तस्य, राज्ञो भवविरा - गिणः । अस्तेर्भूरिव सअज्ञे, निर्वेदः स्थानके रतेः ॥ १९१ ॥ भवभीकम्पमानाङ्ग, केवली स्माह तं नृपम् । मा खेदमुद्दाद्यापि न गतं किञ्चनापि ते || १९२ ॥ विभेषि यदि मृत्योस्त्वं, शाश्वतं शर्म चेहसे । प्रतिपद्यख तदीक्षां, स्वयं | जिननिषेविताम् ॥ १९३ ॥ उक्तं च--"अंतोमुडुतमित्तं, विहिणा विहिया करेह पबच्चा । दुक्खाणं पञ्चंतं, चिरकालकयाह किं भणिमो ? ॥ १९४ ॥ जिणभवणविंग कारणरहजत्ताप मुहसङ्घ धम्माओ । पवज्जा खलु गरुया वज्जियसावञ्चवावारा ॥ १९५ ॥ कंचणमणिसोवार्ण, धंभसहस्सूसियं सुवण्णतलं । जो कारिज जिणहरं, तओवि तवसंजमो अहिओ ॥ १९६ ॥ चेश्यकुलगणसंचे, आयरियाणं च पव्यणसुए य । सबैसुवि तेण कथं, तवसंजममुज्जमंतेण ॥ १९७ ॥ इति ज्ञानिवचः श्रुत्वा, निर्विण्णो नृपतिर्भवात् । राज्ये निवेशयामास सुतं विमलवाहनम् ॥ १९८ ॥ मित्रद्वयानङ्गलेखासहितो हरिवाहनः । भवनिर्वेदतो दीक्षामादत्त गुरुसन्निधौ ॥ १९९ ॥ दध्यौ च यदहं धन्यो, यस्य मे भोगकर्दमे । मनस्योद्धरणायैवागमत् ज्ञानी पुरन्दरः ॥ २०० ॥ विमृश्येति द्वादशापि, भावना भावयन्नयम् । च