________________
मानं तीर्थमानत्यभिग्रहं पूरयात्मनः ॥ १५६ ॥ हरिवाहनमित्राभ्यां पूर्व तस्मिन्नधिष्टिते । विमाने सा समारूडा, सहसा सहसा हृदि ॥ १५७ ॥ ताभ्यां तं तरसा नीत्या, व्योम्नि राज्ञोऽप्रतस्त्विति । प्रोचे शेषा सतीरनं, हरिबाइनगेहिनी ॥ १५८ ॥ तन्मित्राभ्यामियं शक्त्या, नीयते योऽत्र कश्चन । समस्ति सुभटंमन्य, एत्य युद्धं करोतु सः ॥ १५९ ॥ ततो भूपः स्फुरत्को पाटोपादूचे भटान्निजान् । रेरे गृहीत गृहीतैौ बाविष दाम्भिक ॥ १६० ॥ तयोर्नृपमटानां च, सिंहनादातिदारुणम् । शराशर्यभवद्युद्धं त्रिदशासुरयोरिव ॥ १६१ ॥ विद्याबलाद्राजवलं, ताभ्यां विद्राव्य सर्वतः । तदन्तः पुरतः कन्या - युगमादाय निर्गतौ ॥ १६२ ॥ अथ मित्रपुरोद्याने, विमानादवतीर्य तौ । सशोकं सकलं लोक-मद्राष्टां कष्टनिभेरम् ॥ १६३ ॥ दुःखस्य कारणं पृष्टः कोऽपि ताभ्यां नरो जगौ । अनङ्गलेखाप्रेयस्या, विरहार्त्तोऽस्ति भूपतिः ॥ १६४ ॥ तदुःखेनाकुलो लोकः, खेदमेदुरितान्तरः । अश्रेयसो निवृत्त्यर्थे, सेते कुलदैवतम् ॥ १६५ ॥ तच्छ्रुत्वा श्रेष्ठः सिद्धपुत्ररूपं विधाय सः । गत्वा च नृपतेः पार्श्वमाशीर्वादमदान्मुदा ॥ १६६ ॥ राजा दत्तासनोऽवोचदेव ! मोद्वेगमुह । सम्पादयामि तत्सर्वं यत्ते कार्य दुरुत्तरम् ॥ १६७ ॥ सोलासोऽभाषत क्ष्मापः शक्तिः काप्यस्ति चेत्तव । देवीमनङ्गलेखां तत्साम्प्रतं समुपाहर ।। १६८ ।। दर्शयन्निव माहात्म्यं, पटं प्रानृत्य सर्वतः । हुङ्कारानमुचत् प्रोथैः, सद्ध्यानं नाटयन्निव ॥ १६९ ॥ तदैव कृतसङ्केता, विमानस्था समाव्ययौ । अनङ्गलेखा वेगेन, नरदेवस्य संसदि ॥ १७० ॥ तदा प्राणप्रियालोकामृतखानीभवन्निन । नृपः कण्टकितो