________________
वार्त्ता, रूकस्वामिनीहृतेः । तत् कुलाअनमन्तःपुरं गतौ ॥ १२७ ॥ तत्राश्रुमिश्रनेत्रान्तां शीलालङ्कारधारिणीम् । अपश्यतां नरं कञ्चिद्ध्यायन्ती तां पुरः स्थिताम् ॥ १२८ ॥ हरिवाहननामाङ्कं चित्रितं प्रेक्ष्य तौ पटम् । साम्यं च निजमित्रस्य, ज्ञात्वा तमपजहतुः ॥ १२९ ॥ तस्मिन्नपहृते ताभ्यां साऽभुमिश्रविलोचना । उपालम्भवितुं लग्ना, हताशमिति वेधसम् ॥ १३० ॥ अपराधं मया किं ते १, यचित्रितमपि प्रियम् । अहाषीर्मम हत्याया, अपि त्वं न विभेषि किम् ? ॥ १३१ ॥ हा हस्तग्रहीतोऽपि, चित्रतोऽपि गतोऽसि चेत् ? । दाक्ष्यं तेऽहं सदा ज्ञास्ये, | वेदन्ताऽसि हृदः प्रिय ! ॥ १३२ ॥ तां तथा दुःखितां दृष्ट्वा, पटं तस्यै वितीर्य च । प्रकटीभूय वृत्तान्तं तत्पार्श्वात्तावपृच्छताम् ॥ १३३ ॥ कस्याङ्गभूस्तव प्राण- प्रियः कर्हि विवाहिता ? । तेन त्वं ब्रूहि निश्श, यथा त्वामुपकुर्वहे ॥ १३४ ॥ मा रोदीर्भीरु ! कान्तेन, संयोगं ते स्वशक्तितः । कुर्वेहे यदि सत्यं नौ, पुरो वक्ष्यसि दक्षिणे ! ॥ १३५ ॥ साऽपि माह पुरी भोगावतीन्द्रेन्द्रस्य जन्मना । जयन्तखेटजयिना, हरिवाहनकेन तु ॥ १३६ ॥ विद्याधरपुरेशेन, परिणीतेतिजल्पिनीम् । तौ सुहृत्प्रेयसीं ज्ञात्वा, नेमतुः पुलकाङ्कितौ ॥ १३७ ॥ ब्रुवाते च सतीरल !, त्वमस्मद्धातुबलभा । यौ तेन सह निष्क्रान्तौ, सुहृदो विद्धि नौ हि तौ ॥ १३८ ॥ मा विषादं कुरुष्व त्वं, स्वं जानीहि प्रियान्तिके । क्षणमेकं प्रतीक्षख, स्वकृत्यं साध्यते यथा ॥ १३९ ॥ सा ज्ञात्वा सुहृदो भर्तु भृशमानन्दिताशया । अवादीद्देवरी कार्य, कुर्गायां स्वेप्सितं युवाम् ॥ १४० ॥ ता नत्वा विगतक्षोभी, सम्प्राप्तौ भूपपर्षदि । अदृष्टपूर्विणी क्ष्मापेनापि ताविति