SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ *6 लक्ष्मीः श्राक् प्रफटीभूय, माहाऽमात्य ! वरं वृणु ॥९८ ॥ सोऽप्यूचे राज्याधिष्ठात्रि, ! कभुकखामिनी स्त्रियम् ।। आनीय मे महीनाथं, प्रयच्छ स्याद्यथा सुखी ॥ ९९ ॥ साऽपि तं स्माह तत्कार्य, क्रियते यत्फलेपहिः । निष्फला-12 रम्भसंरम्भोऽनय हरिवद्भवेत् ॥ १० ॥ उदेति यदि वारुण्यां, भानुश्वाङ्गारमुक शशी । तथापि सा संती शीलं, प्राणान्तेऽपि न लुम्पति ॥ १०१॥ कयहं तु भवत्खामी, न मुञ्चति तथापि हि । तामानीय प्रयच्छामि, न स्मायोऽहं | पुनस्त्वया ॥ १०२ ॥ इत्युक्त्वा सहसा गत्वा, विद्याधरपुरं रमा । अनङ्गलेखामद्राक्षीदर्हदाकृतोद्यमाम् ॥ १०३ ॥ अपहत्य क्षणादेना, नरकुलरवेश्मनि । मुक्त्वा लक्ष्मीरथापृच्छय, सचिवं सा तिरोदधे ॥ १०४ ॥ तामागतां परि-5 ज्ञाय, राजा राजसभावतः। स्माह खामिनि ! मां पश्य, प्रेममन्थरया दृशा ॥ १०५ ॥ येन्नातटपुरखामी, नरकुजर-1 IM भूधनः । कभुकालोकनाजातरागस्त्वामहमानयम् ॥१०६ ॥ साऽपि दध्यौ धुवमेतदमङ्गलमुपस्थितम् । यद्वा शील-|||| भृतां स्त्रीणां, कापि नामङ्गलं भवेत् ॥ १०७ ॥ चिन्तयित्वेति साऽयोचन्नुप! मुञ्च परस्त्रियाम् । सम्बन्धं कर्मबन्धस्य, हेतुं कीर्तिविलोपकम् ॥ १०८ ॥ रसातलं यदि वर्ग, खग्गै वापि रसातलम् । ध्रुवं याति तदापि खं, न शीलं खण्डयाम्यहम् ॥ १०९ ॥ नृपः स्वार्थप्रियश्चेति, तन्निशम्य व्यचिन्तयत् । नूनं परिचयाभावादियं वक्तीशं || बचः ॥ ११० ॥ यतः-आसन्नमेव भजते नृपतिर्मनुष्यं, विद्याविहीनमकुलीनमसंस्तुतं वा । प्रायेण भूमिपतयः प्रमदा लताश्च, यत्पार्श्वतो भवति तत्परिवेष्टयन्ति ॥ १११॥ भर्नुर्वियोगतः साऽश्रुवाभिभूमिं पयोदवत् । सिञ्चन्ती चि-11 %ARKARTER
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy