________________
लयन् भोगान्, सेविष्येऽहं यथासुखम् ॥ ५२ ॥ प्रयातोऽस्ति विवाहस्य, सामग्रीकरणाय सः । अद्य वो वा समागत्य, परिणेष्यति मां बलात् ॥ ५३ ॥ ज्ञानिना मुनिनाऽभाणि, ममात्रे तु तच प्रियः । भागीन्द्रदत्तराजेन्द्र तनयो हरिवाहनः ॥ ५४ ॥ तन्मुनेर्वाग्वि संधादान्मम खेदोऽधिकोऽजनि । लभ्यते नहि निर्भावैचिन्तारलं कचिद्भुवि ॥ ५५ ॥ ततः स्मितेन धौतोष्ठस्तां स्वाह हरिवाहनः । सुख ! प्रसीद तद्विद्या-धरं वृणु मनोहरम् ॥ ५६ ॥ खेटस्य च कुमारस्य, भानुखद्योतयोरिव । अन्तरं सुभ्रु ! जानीहि मा मुहो मुनिवाक्यतः ॥ ५७ ॥ कुरूपे दुर्भगेऽङ्गारश्या निर्गुणशेखरे । जीवितेश्वरबुद्धिं मा, कुरुष्वं हरिवाहने ॥ ५८ ॥ तन्मूर्त्ति सापि पश्यन्ती, किं स एष मम प्रियः । नहि सन्तः प्रकुर्वन्ति निन्दामन्यस्य देहिनः ॥ ५९ ॥ सज्जनानां नवः पन्थाः कोऽपि यन्निजगर्हणाम् । कुर्वन्ति प्रथयन्तोऽन्यगुणानां परिकीर्त्तनम् ॥ ६० ॥ विमृश्येति तमाह स्म, नूनं त्वां हरिवाहनम् । मन्ये स्वमानसोल्लासैः, सुभग! त्वद्विलोकनात् ॥ ६१ ॥ तदा हरित्करि श्रोत्रोत्तम्भनप्रवणोऽधिकम् । उल्ल्लास स्फुरद्वर्यतूर्यनादः समन्ततः ॥६२॥ तं श्रुत्वा कातराक्षी सा, कुमारमवदद्भिया । इतो व्रज समायाति, स जयन्तो महाबलः ।। ६३ ।। तदैव सोऽपि सस्प्राप्तः कोपादूचे नृपात्मजम् । को रे त्वं कुत आयातो, मदीयान्तःपुरान्तरे ? ॥ ६४ ॥ कुमारोऽप्यवदत्खेद, 1 श्रीन्द्रदत्तनृपाङ्गभूः । हरिवाहननामात्रागां रणायोद्यतो भव ॥ ६५ ॥ इति श्रुत्वा रुषा खङ्गं, करे कृत्य सुदारुणम् । कुमारेण समं योद्धुमारेभे खेचरेश्वरः ॥ ६६ ॥ तयोः प्रववृते युद्धं रामरावणयोरिव । भग्नासिश्व कुमारेण स बद्धा