SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ 1 7 गतस्तस्माद्यात यात तदन्तिकम् || ३७ ॥ साहसेन पयोभिश्च तस्य ता रञ्जिताशयाः । जजल्पुर्वत्स 1 सन्तुष्टाः, स्मो वयं तद्वरं वृणु ॥ ३८ ॥ सोऽस्मानि यः । प्रसद्योपाददीध्वं मे, क्षमध्वं चापराधिताम् ॥ ३९ ॥ ता उपादाय वस्त्राणि, परिधाय च तं जगुः । वत्स ! त्वं राजपुत्रोऽसि, चरित्रेणामुना ध्रुवम् ॥ ४० ॥ स्वङ्गरलं गृहाणेदं, जगद्विजयदीक्षितम् । दिव्यकञ्जकमेतच, स्वप्ने पन्यै समर्पयेः ॥ ४१ ॥ अस्माकं वचसा मधु, राज्यमाप्ताऽसि पुत्रक । दत्त्वा तद्वितयं देव्यः स्वस्थानमगमन् रयात् ॥ ४२ ॥ प्रातः खन्नसहायोऽसौ गच्छन् साहसिकाग्रणीः । पुरमेकं पुरोऽपश्यदलकासोदरं श्रिया ॥ ४३ ॥ प्रविशंस्तत्र हद्वानां, सौधानां च परम्पराम् । ददर्श वस्तुसम्पूर्णा, परं मनुजवर्जिताम् ॥ ४४ ॥ साश्चर्योऽयान्नृपागार - सप्तमीं स भुवं गतः । तत्राद्राक्षीत्कनीमेकामिन्दीवरविलोचनाम् ॥ ४५ ॥ किमेषा प्रथमा सृष्टि - विधात्रा रक्षिता ध्रुवम् ? । एतां दृष्ट्वा यथा नारीरन्यान्याश्च सृजाम्यहम् ॥ ४६ ॥ इति ध्यायंस्तयाऽदर्शि, हस्तन्यस्तकपोलया । कुमारो रूपलावण्य किङ्करीकृतमन्मथः ॥ ४७ ॥ उत्थाय सादरं साऽपि साध्वसोद्भासिविग्रहा । तमुपावेशयत्सिंहासने सिंहपराक्रमम् ॥ ४८ ॥ कुमारस्तामभाषिष्ट, किं सशोकेच लक्ष्यसे ? । साऽप्यूचे शृणु सौभाग्य- भाग्योदयवतां वर ! ॥ ४९ ॥ श्रावस्त्यां विजयाख्यस्य पृथिवीशस्य नन्दिनी । अनङ्गलेखा संज्ञाऽहं संथिता यौवनश्रियम् ॥ ५० ॥ निजवेश्मगवाक्षस्था, दृष्ट्वा विद्याभृताऽन्यदा । जयन्तनाम्ना हत्वाsत्र, पुरं कृत्वा निवेशिता ॥ ५१ ॥ मां स्माह खेचराधीशस्त्वां त्रिवासात्र पत्तने । राज्यं च पा
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy