________________
तथापि धीरता धीरेने त्याज्या व्यसनेऽपि हि ॥ २२ ॥ आत्मानमिति सम्बोध्य, स सुधीः सरसस्ततः । दिश्युदीच्यां महारामे, प्रविवेश नृपात्मजः ॥ २३ ॥ सदन्तरे पुग्छ रिमी भूषिवः स्त्रादरात् । क्षेमङ्कराख्ययक्षस्याद्राक्षीदत्रवर्षं गृहम् ॥ २४ ॥ सायं सोऽयमपायस्य, रक्षार्थी वसतेः कृते । प्रविश्य तस्य च द्वारे, कपाटघटनां व्यधात् ॥ २५ ॥ तस्मिन् सुप्ते रजन्यर्द्धे, प्ररणन्मणिनूपूराः । प्रापुरप्सरसो दिव्यनेपथ्याः तत्र मन्दिरे ॥ २६ ॥ तत्र ताभी रणद्वेणुवीणानादपुरस्सरम् । नृत्यमासूत्रयाश्चत्रे, करणैश्चित्तहारिभिः ॥ २७ ॥ ततो वासांसि ता मुक्त्वा परिधायापराणि च । नृत्य श्रमापनोदाय, ययुः पुष्करिणीं प्रति ॥ २८ ॥ स्वैरमप्सरसस्तत्र, यावत्नानं व्यतन्वत । तावदुद्घाट्य स द्वारं तासां वासांस्युपाददे ।। २९ ।। प्रविश्य यक्षवेश्मान्तः, पिधाय द्वारमअसा । कुमारो निर्भयस्तस्थौ, किमसाध्यं महौजसाम् १ ॥ ३० ॥ विधाय जलकेलिं सा, व्यावृत्ता मन्दिरान्तरे । स्वस्ववासांस्यपश्यन्त्यः, शोधयाञ्चक्रिरेतराम् ॥ ३१ ॥ मन्दिरं पिहितद्वारं दृष्ट्वा ता अवदन्मिथः । नूनं केनापि धूर्त्तेण, वस्त्राण्यपहृतानि नः ॥ ३२ ॥ साटोपं ता अभाषन्तामर्षेणोदुरया गिरा । उद्घाटय नर ! द्वारं, चेतवास्ति जिजीविषा ॥ ३३ ॥ अस्मद्वासांसि चेन्न त्वमर्पयिष्यसि तद्ध्रुवम् । क्षेप्स्यामोऽम्बुनिधौ कोपाद्भवनं भवता समम् ॥ ३४ ॥ तच्छ्रुत्वा श्रितमानस्य तस्यैका यक्षिणी जगौ । नैष दण्डेन संसाध्यः कोऽप्यस्त्येष नरायणीः ॥ ३५ ॥ ततः सर्वाभिसारेण, सामवाग्भिः प्रलोभ्य तमू । जगुर्वेद गृहीतं नो वास्त्रं केनाथवाऽर्पय ॥ ३६ ॥ सोऽप्यब्रवीद्रयाद्वायुरादाय वसनानि यः । भविताऽभे