________________
| त्याह-उपशमः क्षमा १ 'संवेगो' भववैराग्यं २ 'निवेदो मोक्षाकाङ्क्षा ३ अनुकम्पा' जीयेषु कारुण्यम् ४ 'आस्तिक्यम'
अहंदुक्तेषु जीवादितत्त्येष्यसिताबुद्धि रितिवापाः ।। ४३॥ एतेषु प्रथममुपशमस्वरूपं गाथापूर्वार्द्धनाह|
अवराहेऽवि महंते कोहाणुदओ वियाहिओवसमो। व्याख्या-'महत्यपि' गरीयस्यपि 'अपराधे' दूषणेऽर्थात्समुत्पन्ने विवाधितस्य' ताडनादिना जीवान्तदशां नीतस्य * क्रोधानुदय उपशमः स्यात् , स च प्रकृत्या वा कषायपरिणतः कटुकफलावलोकनाद्वा भवति । यदुक्तम्-पयईए
कम्माणं, नाऊणं वा विवागमसुहंति । अवरद्धेपि न कुप्पइ, उवसमओ सबकालंपि ॥ १॥ अन्ये तु क्रोधकण्डू | विषयतृष्णाशममुपशममाहुः, ननु प्राप्तसम्यक्त्वो हि साधुपास्तिपरो यदि कोधकण्डूविषयतृष्णाभ्यां(न)तरलीक्रियते ।
तदा कृष्णश्रेणिकादीनां सापराधे निरपराधेऽपि परे क्रोधयतां विषयतृष्णापरवशानां कथमुपशमः ?, तदभावे स-1 सम्यक्त्वं न लक्ष्येत, अतो नैतत्सङ्गतिमङ्गति, (सत्यं) सम्यग्दर्शने लिङ्गिनि सति नियतं लिङ्गसम्भव इति नैप निश्चयः,
धूमवर्जितोऽपि वहिरयस्कारशालायामालोक्यते भस्मच्छन्नस्य धूमध्वजस्य(च) न धूमलयोऽपीति, अयं तु नियमः-सुप-: रीक्षिते लिङ्गे सति लिङ्गी स्यादेव, यदुक्तम्-लिङ्गे लिङ्गी भवत्येय, लिजिन्येवेतरत्पुनः। नियमस्य विपर्यासे, सम्बन्धो । लिङ्गलिझिनोः ॥ १॥ अतः सज्वलन(इतर)कषायोदयाच्छ्रेणिकादीनां क्रोधकण्डूयविषयतृष्णे, सज्वलना अपि केचन