SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ कापि, भगवन् ? भवतः स्फुटम् । यत्र में दर्शनं जातं न भवितारम् ॥ २ ॥' इत्यादि, तद्भक्तिव्यक्तिरञ्जितमनसाऽईद्विम्बाधिष्ठायकयक्षेण स वर्णयितुमारब्धः, हे सिंह ? सत्त्वशालिषु सिंह? भवद्भक्त्या सन्तुष्टोऽहं तद्याचख स्वाभीष्टं सोऽप्युवाच - देवराज ? यदि सत्यं सन्तुष्टोऽसि तदा मे राज्यदो भव । यक्षोऽप्याख्यत् एवमस्तु परं प्रतीक्षख षण्मासी, सिंहोऽपि तथेति तद्वचोऽङ्गीकृत्य स्वसदनमेत्य भोजनं कृत्वा प्रत्यहं भगवन्तं नमस्यन् षण्मासीमतिचक्रामैकदिनवत् । अथ तस्मिन् पुरे पुत्रादिरहितो राजा सहसा मूढविसूचिकया परभवभाजनमभूत् प्रातः समये च पुरोहितसचिवादिभिः पट्टगजपट्टहयच्छत्रचामरयुगलम त्र पूर्ण कलशरूपाणि पञ्चदिव्यान्यभिषिक्तानि तानि च राजमन्दिरात्प्रतिपदं शौर्यादिगुणोल्वणं राजपुत्रादिलोकं दुर्भगमिवपरिहत्य पुराद्वहिर्निःसृत्य च क्रमात्तरुतलसुसं जीर्णशीर्णचीवरधारिणं सिंहं दृष्ट्वा स्वस्वच्यापारकरणपराण्यभ्यपिञ्चन् । ततो मन्त्रिसामन्तैराभरणवस्त्रादिकं परिधाप्य गजेन्द्रस्कन्धमारोप्य छत्रचामरादिश्रियाऽलङ्कृतो महद्वर्षा स सिंहराजः पुरे प्रवेश्य सिंहासनमुपवेशितः । अत्रान्तरे समरप्रासजयपत्रा राजपुत्राः परस्परमालोचयाञ्चकुः कथं गोपालभूपालोऽस्मत्प्रणतिमर्हतीति न प्रणेमुः, राजसभामेत्य च राज्ञः समानासनेषूपविशन्ति स्म । एवं तान् कृतावज्ञान् विलोक्य स राजा राज्यर्द्धिप्राप्याऽपि परमदरिद्र इव दुःखमनुभवन्नमर्षे वदंश्च सधूमङ्गमेवमादिशत् - अस्ति भोः ? कोऽपि भटो यो दुष्टानेतान् बनातीति तद्वचः श्रवणनिर्मितो पहासांस्तान् सुभटानास्थानद्वारस्थित दारुमयप्रतीहारास्तत्पुण्यप्रचयप्रेरिता उत्थाया
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy