________________
+
24XNXNNER%ACACAN
कुणयन्त्यथ । ऊचे विदन्नपि कथंकारं भ्रान्तोऽसि ? वान्धव ! ॥ ११० ॥ स्त्रीसेवानिरताः शत्रुवत्रन्धनलालसाः। तेऽमी ब्रह्मादयः कीटा, धर्म वक्ष्यन्त्यधर्मिणः ॥ १११ ।। भ्रातः । श्रीमन्महावीराद्धर्म प्राप्य कथं मनः । अनिष्टानित्र तान् द्रष्टुमुत्सहेत ममाऽधुना ॥ ११२ ॥ सुलसामम्बडोऽत्यन्तं, व्यावण्यं स्वमगाहम् । साऽपि खकीयहत्पमे, धभार परमेश्वरम् ॥ ११३ ॥ मत्वैवं सुलसाचरित्रमान श्रीवद्धभानी , स्थैर्योदार्यमहार्घतापरिगतं विधत्रयाश्चर्यदम् । भन्या ! यूयमपि प्रथां नयत तद्धमें स्थिरत्वं यथा, सम्यक्त्वेन विभूषिताः शिवरमाश्लेषात्सुखं विन्दत ॥ ११४ ॥ सम्यक्त्वस्थैर्ये सुलसाकथा ॥ चतुर्थ स्थैर्याख्यं सम्यक्त्वभूषणमुक्त्वा पञ्चमं प्रभावनाख्यं सम्यक्त्वभूषणं गाथाचतुर्धपादेनाह
"पभावणुस्सप्पणाकरणं ॥४२॥ ___ व्याख्या-जिनशासनस्य नानाप्रकारमहोत्सवकरणेन विख्याततानयनमुत्सर्पणा तस्याः करणं-निर्मापणं प्रमामें वना भवतीति गाथार्थः ॥४२॥ भावार्थस्तु सिंहदृष्टान्तात् ज्ञेयः । स चायं1 समस्ति समस्तप्रशस्तवस्तुविस्तारापणं दूरिताशेषकृपणं लक्ष्मीसरस्वतीकुलगृह राजगृहं नाम नगरं । यत्र सुघापरिधवलितविततप्रासाददम्भसंरम्भात् । पौरनरा निजकीर्ति-स्तम्भानारोपयामासुः ॥ १॥ तत्र समराजिरप्रसमरतरातिवीरवारनिवारणप्रचण्डदोईण्डिमोद्रीयः श्रीसुग्रीवः प्रशास्ति स्म राज्यम्-अनल्पकल्पान्तकृशानुकल्पो,