________________
रकारी कर
यद्हारामे, मलबत्तं प्लवङ्गमम् ॥ १९॥ ततः सा वानरी जातमात्रमादाय तं कपिम् । स्माह मे गूढगर्भायाः, समभूत्प्रसवोऽधुना ॥२०॥ स्तन्यं न साम्प्रतं ताग, क्षीयते तद्दि(द्वि)ना त्वयम् । इत्युक्त्वा च वयस्याभिः, शिशुं वन्यमपाययत् ॥ २१ ॥ युगलम् ॥ तत्रैव भवनारामे, पुनरागत्य सा कपी । रुदती करुणं दृष्ट्वा, पद्मश्रियमभाषत ॥ २२॥ मा रुदः सखि ? महात्ती, शृणु स्वार्थ मयैव हि । यध्ययाप्रेतनः सूनुरुदपाद्यत स त्वयि ॥२३॥ साम्प्रतं मूलिकामन्यां, नरनन्दनदायिनीम् । आदत्खात्र न कर्त्तव्यः, संशयोऽर्हगिरीव हि ॥ २४ ॥ पुनस्तद्वाचि विश्वस्ता, प्रशस्ता हि वणिक्रिया। पूर्ववन् मूलिकापानादसूत सुतमुत्तमम् ॥ २५ ॥ विशालबुद्धिरानन्दादतुच्छोत्सवपूर्वकम् । आरामनन्दन इति, बालकस्याभिधां व्यधात् ॥ २६ ॥ क्रमेण पाल्यमानः स, धात्रीभिवृद्धिमासदत् । सिच्यमानोऽम्भसाराममालिकाभिरिवाहिपः ॥ २७ ॥ उपाध्यायादधीतानां, कलानां स्पर्द्धया किल । स यौवनश्रियाऽश्रायि, राजहंस्येव मानसम् ॥ २८ ॥ पितृभ्यां कारितातुच्छमहोत्सयपुरस्सरम् । कन्यां पद्मावती पर्यणयत्स धरणेन्द्रवत् ॥ २९॥ आरामसूस्तया साई, भुअन् भोगानभङ्गुरान्। समयं व्यतिचक्राम, यथा शच्या शचीवरः ॥ ३०॥ सुखामिनेव। मधुना, नन्दितां सकलां प्रजाम्। अथ व्यथयितुं प्राप्तो, भीष्मो ग्रीष्मः कुमत्रिवत् ॥ ३१॥ तस्मिन्नवसरे सूरे, ललाटतपताङ्गते । नर्मदाजलकेल्यर्थ, पनसूः सप्रियो ययौ ॥ ३२ ॥ तयोः कुर्वाणयोर्वारिक्रीडां पद्मावती ततः । तरत्सरिजलेऽपश्यद्धसवत्पुष्पकभुकम् ॥ ३३ ॥ ऊचे च नाथ ! पश्येदं, वासयन्नर्मदाजलम् । कथं स्रोतोऽन्तरे याति? प्रसून
स