________________
पूर्णता ॥ ६५ ॥ क्रमेण प्राणिनां मृत्युं, मृत्यों । त्वं वितनोषि हि । एषाऽपि स्वस्थितिः किं ते, विस्मृताऽस्मदमायतः ॥ ६६ ॥ एवं तौ शोकपायोधि-मभौ श्रीश्रेणिको नृपः । युक्तोऽभयकुमारेण समागत्येत्यत्रोधयत् ॥ ६७ ॥ मा शोचतममी भाषा, भुवि सर्वे विनश्वराः । सर्वसाधारणे मृत्यौ, तत्कः शोकं समुद्वहेत् ? ॥ ६८ ॥ मृत्युस्तु सर्वजन्तूनां प्रकृतिर्जगति ध्रुव । जीवितव्यं विकार, साकं विमुञ्चताम् ॥ ६९ ॥ इति वैराग्यसाराभिर्वा ग्भिरेतौ विवेकिनौ । सम्बोध्याभययुग् राजा, निजप्रासादमासदत् ॥ ७० ॥ तत्पूर्वजन्मनो मत्या, विपाकं दुष्टकर्म्मणाम् । विशोका दम्पती तो स्म, यतेते धर्मकर्मणे ॥ ७१ ॥ अन्यदा समवासार्षीचम्पाय चरमो जिनः । सुरासुरनराधीश सेविताङ्घ्रिसरोरुहः ॥ ७२ ॥ अथ दण्डधरछत्री, श्री वीरश्रावकोत्तमः । परिव्राडम्बडाभिरूयोऽनंसीदेत्य जगद्गुरुम् ॥ ७३ ॥ निषद्य च यथायोग्ये, स्थाने श्रद्धाविशुद्धधीः । शुश्राव श्रवणाध्यक्षादेशनां सोऽघमर्षिणीम् ॥ ७४ ॥ भक्त्या नत्वा जिनाधीशं यावद्राजगृहं प्रति । प्रतस्थे सोऽम्वस्तावत्स्वामिना स्वयमौच्यत ॥ ७५ ॥ तत्र प्राप्सो मागरथि - वल्लभां सुलसाभिधाम् । आनन्दयेस्त्वमस्मार्क, धर्मलाभाशिषा ध्रुवम् ॥ ७६ ॥ तथेति प्रतिपद्यासौ, व्योम्ना गत्वाऽथ तत्पुरम् । सुलसा समानो द्वारे, क्षणं स्थित्वेत्यचिन्तयत् ॥ ७७ ॥ अहो त्रिजगतां भर्तुः, पक्षपातो महाजुतः । सुलसायामतोऽमुष्याः करिष्येऽद्य परीक्षणम् ॥ ७८ ॥ वैक्रियाख्यमहालन्ध्यां कृत्वा रूपान्तरं स्यात् । वेदम प्रवश्यायाचिष्ट, भिक्षां सं सुलसां सुधीः ॥ ७९ ॥ भिक्षामपास्य सत्पात्रं, नान्यस्मै प्रददाम्यहम् । इत्यात प्रतिज्ञां
1