________________
सुतः ॥ ३५ ॥ विमृश्येति तथैवाश्चात्सुलसा दैवयोगतः । द्वात्रिंशत्प्रमिता गर्भाः, प्रादुर्भावं ततोऽभजन् ॥ ३६॥ महाभारं हि गर्भाणामसहिष्णुः कृशानिका । सस्मार मुलसाऽखप्नं, कायोत्सग्ग विधाय सा ॥ ३७ ॥ स्मृतमात्रः । सुरः सोऽत्रागत्य तामब्रवीदिदम् । मामस्मार्षीः कुतो हेतोः १, स्वरूपं चापि साऽवदत् ॥ ३८ ॥ त्रिदशोऽप्यवद
द्रे !; न हारि विहितं त्वया । अमोघशक्तयः पुत्रा, भाविनस्ते चिनिश्चितम् ॥ ३९ ॥ किन्तु द्वात्रिंशदप्येते, समा-2 नायुष्कतावशात् । समकालं विपत्स्यन्ते, दुर्लचया भवितव्यता ॥ ४०॥ विषादं मा कृथा गर्भ-व्यथां हर्ताऽस्मि ते स्फुटम् । तथैव कृत्वा स सुरस्त्रिदशाश्रयमाश्वत् ॥ ४५ ॥ स्वस्थदहा वभारेषा, गर्भानु-वदङ्कुरान् । अहो ! पुण्यस्य माहात्म्यं, यत्सुरा अपि किङ्कराः ॥ ४२ ॥ प्रासूत सुलसा काले, पूर्णे द्वात्रिंशतं सुतान् । द्वात्रिंशल्लक्षणोपेतान् , मूर्तान् वीररसानिव ॥ ४३ ॥ नागो नागरिक लोकमाकार्य निजवेश्मनि । तेषां जन्मोत्सवं चके, शक्रम्यापि सुदुर्ल-11 भम् ॥ ४४ ॥ पश्चधात्रीलाल्यमाना, वृद्धिमासादयंश्च ते । पित्रोमनोरथरथां-श्चानन्दैः पर्यपूपुरन् ॥ ४५ ॥ सात-18 यौवनश्रीकाः, श्रीश्रेणिकमहीभुजः । जीवितव्यमिवाभूवंस्तेऽनिशं पार्थवर्तिनः ॥ ४६ ॥ एकदा श्रेणिको भूपश्चम्पा जिगमिषुः पुरीम् । चेटकक्ष्माभृतः पुत्री, सुज्येष्टामभिलाषुकः ॥ १७ ॥ तया प्रदत्तसङ्केतः, श्रीनागरथिनः सुतान् । महारथान् रथारूढान् , रथिप्रथितपौरुषान् ॥ १८॥ लक्षणानीव सद्धीचः, कृत्वा द्वात्रिंशतं सुतान् । प्रस्थाय प्राप्य | चम्पां च, सुरगावम॑नाऽविशत् ॥१९॥ त्रिभिर्विशेषकम् । मगधाधिपतिं तत्र (ज्ञात्वा), चित्रदृष्टानुमानतः । सुज्येष्ठा
%ARIES ACCE