________________
॥ २० ॥ अर्हत्पूजाप्रसक्ताऽपि, सहसाऽऽलोक्य तं मुनिम् । सहसोत्थाय तत्पाद-वन्दनं भक्तितो व्यधात् ॥ २१ ॥ अप्राक्षीद्दक्षमुख्या तं गृहागमनकारणम् । सोऽप्यारुयदागां तैलार्थ, ग्लानसाधुजच्छिदे ॥ २२ ॥ श्रुत्वेति सा जहर्षोश्चैश्चिन्तयन्ती महाशया । लक्षपाकमहातैल निर्माणस्य कृतार्थताम् || २३ || अन्तः प्रविश्य सा तैल-कुम्भं यावदुपाहरत् । तावद्दिव्यप्रभावेण, सोऽभज्यत दिवौकसा ॥ २४ ॥ न मनागपि तचित्तं, दैन्यमाप ततः पुनः । सुरः पूर्वघटात्सस - कलशीमभनक्तराम् ॥ २५॥ घटनेदेपेि नामेदि, विषादेर्वयन्मनः । तस्याः केवलमल्पत्वं, जजल्प स्ववृपम्य सा ॥ २६ ॥ अहो मे मन्दभाग्याया, यद् ग्लानस्य महात्मनः । नोपकाराय तत्तैलं जातं खं च निनिन्द सा ॥२७॥ तस्या अभङ्गुरं भावं दृष्ट्वा देवः सविस्मयः । आविर्भूय जगादेतां, भद्रे ! ते साधु जीवितम् ॥ २८ ॥ यदद्यैवाऽऽद्यकल्पेन्द्रस्तवास्तावीत्सुराग्रतः । सम्यक्त्वस्थैर्यमस्याथ, परीक्षार्थमिहागमम् ॥ २९ ॥ तद्वर्णनाप्यधिकं तत् स्थिरत्वं निरीक्ष्य ते । अभून्मे विस्मयोऽत्यन्तं शिरोघूर्णनकारणम् ॥ ३० ॥ अतो मत्तः कमप्यर्थ, प्रार्थयस्व महाशये ! | सुसाऽपि बभाषे तं सुधामधुकिरा गिरा ॥ ३१ ॥ यदि तुष्टोऽसि मे देव !, तदा देहि तनूद्भवान् । सोऽपि द्वात्रिंशतं तस्यै, गुटिकाः प्रददौ मुदा ॥ ३२ ॥ अब्रवीच क्रमादेता, भक्षिताः स्युः सुतप्रदाः । जाते कार्ये पुनः स्मार्य, इत्युक्त्वा त्रिदशोऽगमत् ॥ ३३ ॥ ततः सा सुलसा दध्यौ, गुटिकानां क्रमादनात् । इयतां दारकाणां को, जातानां मर्दिता शुचिम् ? ॥ ३४ ॥ तस्मादेकत्र सम्मील्य गुटिका अभि चाखिलाः । द्वात्रिंशलक्षणोपेतो, येनैको हि भवे