________________
सकला गुणाः ॥ ५ ॥ नागोऽन्यदा सुताभाव - दुःखाभिप्लुष्टमानसः । कपोलपालिविन्यस्त - हस्तश्चिन्तयति स्म सः ॥ ६ ॥ लालयिष्याम्यहं पुत्रान् स्वे कराच्जे मरालवत् । अरण्यमालतीपुष्प-कल्पेच्छेत्य भवन्मनः ॥ ७ ॥ इति चिन्तार्णये मनं, त्रिलोक्य सुलसा प्रियम् । सुधारसमुचा वाचाऽवोचदेवं विचक्षणा ॥ ८ ॥ नाथ, किं शौर्यतेजो वश्चिन्तेषा प्रसते निशा । ततः सोऽप्यवददेवि ! पुत्रमात्र ॥ ९ प्यूचुषी कान्तं कन्यकास्त्वमनेकशः । विवाद्योत्पादय क्षिप्रं तासु पुत्रान् मनीषितान् ॥ १० ॥ नागों जगाद जीवेशे !, जन्मन्यसिंस्त्वमेव मे । कल्पवलीव कल्पद्रोः, प्रियाऽन्याभिरलं यतः ॥ ११ ॥ त्वत्कुक्षिशुक्तिमाणिक्यमिच्छामि दयितेः सुतम् । अस्मत्स्नेहमहाम्भोधि - संवर्द्धनसुधाकरम् ॥ १२ ॥ यतः प्रतिशरीरं मे, जीवितव्यमिवासि च । सुरोपयाचितैस्तस्मात्समुत्पादय नन्दनम् ॥ १३ ॥ साऽप्यूचे जीवितान्तेऽपि, नान्यद्देवकदम्बकम् । मनसा वचसाऽङ्गेना - राधयामीप्सितासये ॥ १४ ॥ परमाराधनं कान्त !, करिष्ये स्वेष्टसिद्धये । अर्हतामर्हणीयानामचिन्त्यमहिमौकसाम् ॥ १५ ॥ तपोभिराचामाम्लाद्यैः, पावयन्ती निजं वपुः । विशिष्य धर्मकृत्यानि, विधास्यें ब्रह्मसेविनी ॥ १६ ॥ कौसुम्भे त्राससी साऽथ, बसाना खल्पभूषणा । त्रिसन्ध्यं त्रिजगन्नाथं, पुष्पादिभिरपूपुजत् ॥ १७ ॥ कियत्यपि गते काले, त्रिदशेश्वरसंसदि । सुलंसायाः प्रशंसाऽभूत्, स्थिरत्वे धर्मकर्मणः ॥ १८ ॥ तत्रैकस्त्रिदशस्तस्याः, कौतुको मानमानसः । दक्षः परीक्षामा धातुमवाताद्वसुन्धराम् ॥ १९ ॥ उन्मुद्रसाधुमुद्रोऽसौ दरिद्रोऽपि यतित्रतैः । कृतनैषेधिकीकल्पः प्राविशत्सुलसाऽऽलयम्