SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ -- - निस्सकडं जं गच्छस्स सन्तियं ३ तदियरं अनिस्सकडं ४ । सिद्धाययणञ्च ५ इम, चेयपणगं विणिहिटुं ।। ३ ॥" सम्यग्दर्शनज्ञानचारिगैः परमं पर राधयन्तीति साधरः, उसञ्च,-"दशविधयतिधर्मरताः, समवगणितशत्रुमित्रतृणमणयः । जीवादितत्त्वविज्ञास्तीर्थकरैः साधवः प्रोक्ताः ॥ १॥" एतेषां जिनचैत्यसाधूनां द्रव्यभावाभ्यां यत्पूजनं । यथार्हमभ्यहणं तत्र उद्युक्तः सावधानः, यत एतदर्चकस्य भविकस्य भवेत्सफलं जन्म, तथाचोक्तम्-"जिनचलण-12 चणनिचलचित्तह, अणुदिणु दाणु सुपत्तिहिं दितह । धन्नह गिहवासेवि वसन्तह, सहलं जम्मु होइ सुकयत्थह ॥१॥" | एवंविधो यो जीवः “आयारत्ति" आचरणमाचारः शुभक्रियान्यापारस्तं, 'अट्ठभेयन्ति अष्टौ अष्टसङ्ख्या निःशङ्कितनि-1 कातितनिर्विचिकित्साऽमूढदृष्टयुपबृंहणास्थिरीकरणवात्सल्यप्रभावनारूपा भेदाः प्रकारा यस्य तं, पालयति सम्यगाराधयति, तस्य सम्यक्त्वं सदेवगुरुधर्मपरिज्ञानरूपं भवतीति गाथार्थः ॥३॥ यद्यपि अत्र प्रकरणे प्रकरणकृता न दृष्टान्ताः सूचिताः, तथाप्यस्माभिरर्थदृढनार्थ भव्यजनानुग्रहार्थं च यथायोग निदर्शनानि दर्शयिष्यन्ते, तत्रादौ सम्यक्त्वशुद्धिविषये आरामनन्दनकथा कथ्यते-तथाहि___ इहैव जम्बूद्वीपाख्ये, द्वीपेऽर्धशशिसन्निभम् । अस्ति श्रीभरतक्षेत्रं भालवद्भूमृगीदृशः ॥ १॥ तत्र लक्ष्म्या | इब क्रीडागारं लक्ष्मीपुरं पुरम् । यत्रान्तर्बहिरु:षु, पुन्नागाः सन्ति सत्फलाः ॥२॥ तत्रासीत्रासितारातिविक्रमो विक्रमो नृपः । यत्प्रतापजितोऽद्यापि, सविता सेवते नमः ॥ ३ ॥ तस्य प्रसादप्रासादनिर्विवाद
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy