________________
SARKARGERMA
जितजिनराजः सायन्तनसमये खान्तःपुरस्थपौषधशालायां पोषधं जिघृक्षुः सर्वक्रियाकौशलत्वशालीति जैनं वचः संस्मरंश्च गुरूनाकारयति स्प-पञ्चविहायारविसुद्धिहे टमिह साहु सावगो बावि । पडिकमणं सह गुरुणा गुरुबिरहे | कुणइ इकोऽपि ॥ १॥ किंचि अणुटाणं आवस्सयमाइयं चरणहेऊ । तकरणं गुरुमूले गुरुविरहे ठावणापुरओ ॥ २ ॥ तेऽपि सूरयः क्रियासमभिहारेण क्रिया कारयितुं विधिवशाद्गीतार्थतपोधनदवीयस्त्वेन तं राजवैरिणं राजपुत्रार्ष गीतार्थमिव मन्वाना अनुगमनाय समादिक्षन् । सोऽपि लब्धावसरो मीतार्थतां नाटपन् खात्मानं बकमिव । परमधार्मिकं दर्शयन् परमाधार्मिकः सहगृहीतकङ्कपत्रासिपुत्रिको गुरुभिः समं राजकुलं ययौ । राजापि चिन्ताम|णिमिव दुर्लभं धर्म समाराडुकामः कामं गुरूनभिवन्द्य सूत्रोक्तयुक्त्या पौषधमादित । तैः समं च प्रतिक्रमणं विधाय। विहितापापानध्यायाद्भुतखाध्यायः संवेगतरङ्गिणीतरङ्गलानपूताङ्गः कृतप्रथमप्रहरप्रतिलेखनः संस्तारकमास्तीर्य सामायिकसूत्रचतुश्शरणप्रतिपत्तिपरमेष्ठिमहामत्रादिस्मरणपूर्वकं धर्मजागरिकां कियन्तमपि कालमाकलय्य कुक्कुटवत्पादौ प्रसार्य | चास्वाप्सीत् । गुरयोऽपि कृतखाध्यायास्तत्सन्निधौ शेरते स्म । अत्रान्तरे स दुष्टात्मा कपटनिद्रया क्षणं सुस्वाऽय-18 मेव मे पितृवरनिर्यातनावसर इति विचार्यानार्यशिरोमणिरुदायिनृपगलफन्दलं कङ्कपत्रकार्तिकया छित्त्या स्वयं च नृपरक्षादक्षरप्यारक्षरनिवारितो निरगानगरादपि भव्येतरः । ततो राज्ञः कण्ठपीठाद्रक्तप्रवाहो वहन् गुरूणां संस्तारकमापदापदां पदमिव साक्षात् , तत्संस्पर्शाद्गुरवोऽपि जजागरुः । ततस्तथाभूतं भूपति विलोक्य साताकम्पास्तं च