________________
!
पुत्रनामासि, तज्जीव शरदां शतम् ॥ १ ॥ एवं तं पुत्रं दर्श दर्श पौनःपुन्येन पठतो नृपस्य करपङ्कजात्कुमारभृत्याविचक्षणाभिवृद्धस्त्रीभिरुपादाय सोऽरिष्टवरिष्ठशय्यायां निवेशितः, तस्य च शिशोर्यथारुचि याचकद्विजादिभ्यो दानं | ददानो महीनो जातककर्म महोत्सवमतुच्छमकारयत् तदेव दिवस सुदिनतया मन्त्रानस्तस्याङ्गभुव उदायीति नाम विदधे । स वालः सितपक्षमृगाङ्क इव वपुरुषचयेन कलाकलापेन च समकालमेवाकलयां भूवे । राजापि सेहमोहितः कटितटनिविष्टेन सुतेन शालिभञ्जिकाविभ्राजमानस्तम्भनिर्दिम्भशोभां बिभराम्बभूव, आसनशयनयान भोजनादिविधानेष्वपि स यतिपतिरिव रजोहरणं तं न दूरीचकार । एकदा वामोरुमूले उदायिनं निवेश्य भोजनायोपाविशद्विशामीशः, अर्द्धभुक्ते च स शिशुः सर्पिर्धारामिव सूत्रधारामसूत्रयद्भोजनान्तराले, राजापि सुतवात्सल्यच्छलितो न तं मनागपि वालयामास, मा भूदस्य मूत्रनिरोधेन गदसम्भवः । तन्मूत्रसंसक्तं भोजनं पाणिनोत्सार्य तथैव रसवतीमाखादयामास, अहो मोहविलसितम् । अथ तत्स्नेहमोहितो महीपतिस्तस्मिन्नवसरे स्वमातरं चेहणादेवीमवादीत्अम्ब! यादृक् स्नेहोऽमुष्य शिशोर्विषये न तादृकस्याप्यभूद्भवति भविष्यति च इति श्रुत्वा वेलणाऽप्याह स्म - वत्स ! कियांस्तव स्नेहोलासः ?, या त्वद्विपये पितुरसिीत् स कोट्यंशेनापि तत्र न स्वतनये, मातः ! कथमिति कूणिकेनोक्ता सा प्रोचे - वत्स ! गर्भस्थे त्वयि मम त्वत्पितुरत्रास्वादनदोहदे ऽभयकुमारेण पूरितं पितुरनर्थहेतुरयमङ्गज इति जातमात्रस्त्वं मया परिष्ठापयांचक्रे निजोद्यानवनिकायां तत्र कुर्कुटेन तव कनिष्ठाङ्गुलिः पिच्छाग्रेण विद्धा, सा च कृमि