________________
षष्ठं प्रभावकाधिकारमुक्त्वा सप्तमं सम्यक्त्वपञ्चभूषणद्वारमाहसम्मत्तभूसणाई, कोसलं तित्थसेवणं भत्ती । थिरया पभावणाविय भावत्थं तेसि वच्छामि ॥ ४० ॥ व्याख्या -- सम्मत्तत्ति - सम्यक्त्वस्यैतानि भूषणानि भवन्तीति सम्बन्धः, सम्यक्त्वं-कार करो चकदीपकादिभेदभिन्नं, अथवा क्षायिकक्षायोपशमिकौपशमिकसाखादनादिरूपं तदेव सर्वस्य धर्मस्याङ्गभूतं भूयते - अलङ्क्रियते परमशोभामवाप्यते यैस्तानि भूषणानि, क्रमेण तन्नामान्याह - 'कौशल्यं' सर्वेदिनकृत्यक्रियासु नैपुण्यम् 'तीर्थसेवनं' तीर्थं नद्यादेवि संसारतारेण (रणे ) - पुखावतारो मार्गः, तब द्विधा द्रव्यतीर्थ भावती चेति, तत्र द्रव्यतीर्थ जिनजन्मादिभूमय, उक्तं च- जम्मं दिक्खा नाणं, तित्थयराणं महाणुभावाणं । जत्थ य किर निवाणं, आगाढं दंसणं होइ ॥ १ ॥ भावतीर्थ तु चतुर्वर्णश्री श्रमणसङ्घः, प्रथमगणधरो वा, तस्य सेवनं पर्युपास्तिकरणम् २ || 'भक्ति' प्रवचने विनयवैयावृत्त्यकरणरूपा प्रतिपत्तिः ३ ॥ 'स्थिरता' जिनधर्मे प्रति केनापि व्युद्धाहितचित्तस्य स्थिरताऽऽपादानं, स्वयं वा परतीर्थिकर्द्धिदर्शनेनापि जिनशासनं प्रति निष्ाकम्पता ४ || 'प्रभावना' तैस्तैर्धर्मकृत्यैरर्हन्मतोन्नतिकरणम् ५ ॥ अपिचेति समुचयार्थे इति पञ्चभूषणानि एतेशं 'भावार्थ' स्वरूपव्याख्यानमयेतनगाश्राभिर्वक्ष्यामीति गाथार्थः ॥ ४० ॥ एषां मध्ये प्रथममाद्य भूषणस्वरूपं गाथा पूर्वार्द्धनाह-वन्दणसंवरणाई किरिया निउगत्तणं तु कोसलं ।
-