________________
सधः, श्रीरत्नस्तु विशेषतः । हा धिग्मां तीर्थविध्वंस-पापकश्मलिताकम् ॥ ९६ ॥ स च सन्धां व्यधादेवं, यावतीर्थमिदं मया । नैवोद्धरिभ्यते तावड्रोजनं न विधास्यते ॥ ९७ ।। इत्युक्त्या सोदरौ सङ्घ-रक्षायै विनियुज्य सः । अम्बिकां मनसा कृत्वा, पावर्तत तपोविधौ ।। ९८ ॥ तदेकमानसो रलो, निष्पकम्पो गिरीन्द्रयत् । दूरे तत्याज निर्व्याजमतिरन्नस्पृहामपि ॥ ९९ ॥ मासद्वयोपवासान्ते, स्वान्ते निश्चलतां दधत् । सोऽभाष्यत महासत्वो, दिव्यरूपभृताऽम्वया ॥ १०० ॥ वत्सोत्तिष्ट समागच्छ, सत्त्वाब्धे ! मयका समस् । निर्मिते सुरराजेन, श्रीकाञ्चनबलानके ॥१.१॥ एनं कृतानति नीत्वा, निशायां निजमिनः । द्वासप्ततिमिता मूर्तीदर्शयामास तत्र सा ॥ १.२ । रत्न| हेमशिलारूप्य-मयान्यष्टादश क्रमात् । द्वासप्ततिमितान्येयं, बिम्बान्येक्ष्य जहर्ष सः ॥ १०३ ॥ बिम्वमेकं स्फुरद्रूपं, रानं रत्नः स्पृशन् जगौ । अम्बा मातरिदं देहि, चैत्येऽहं स्थापये यथा ॥ १०४ ॥ निपिद्धः सोऽम्बया वत्स!, कलिकालः समेष्यति । लोकास्तत्र भविष्यन्ति, सुतरामर्थलोलुपाः ॥ १०५ ॥ पापे रता धर्मवाद्यास्तेभ्यो रत्नमयं त्विदम् । न छुट्टियति तस्मात्ते, भवित्र्याशातना भृशम् ॥ १०६ ॥ युग्मम् । विम्ब वज्रमयं वज्र-सारमेतद्गृहाण ५ तत् । तेनापि तद्वचो मेने, शुभायतिविचारिणा ॥१०७ ॥ ऊचे च तन्त्र हे मातरियद्विम्बं कयं मया । नेतन्यं ? स तयाऽप्यूचे, सूत्रेणामेन वेष्टय ॥ १०८ ॥ मा भैषीश्चल बेगेन, पश्चात् त्वं मा विलोकयेः । व्यावृत्याऽऽस्यं यत्र बिम्ब, द्रष्टा स्थास्यति तत्र भोः ॥ १०९ ।। इत्यम्बावचसा रलो, विम्बमादाय सत्वरम् । निमेषवत् व्यतीयाय, कियतीमपि
me