________________
*
*
*
करणं यदागमः-"एस अढे एस परमट्टे सेसे अणट्टे" इति, एवंविधं रूपं लक्षणं यस्य तत् , उक्तञ्च, "त्रिकालविद्भिस्त्रिजगच्छरण्यैर्जीवादयो येऽभिहिताः पदार्थाः। श्रद्धानमेषां परया विशुद्ध्या, तद्दर्शनं सम्यगुदाहरन्ति ॥१॥" तच्च सम्यक्त्वं यद्यप्येकद्वित्रिचतुःपञ्चदशभेदमस्ति, तथापि तन्मुख्यभेदत्रयमुसर्दुनाम... सश्यन्ति बाधिक क्षायोपशमिक तथौपशमिकं, चः समुच्चये, अत्र सूत्रे यद्यपि क्षायिकादिक्रमस्तथापि जीवस्य पूर्वमापशमिकं सम्यक्त्वं ततः क्षायोपशमिकं सम्यक्त्वं ततोऽपि क्षायिकं सम्यक्त्वं चोत्पद्यते, अतोऽत्रादायौपशमिकं सम्यक्त्वं कथ्यते, तद्विधा नैसर्गिकं आधिग-2 मिकं च, तत्र नैसर्गिक परोपदेशनिरपेक्षतया प्राग्भवस्मरणादिना स्यात् , आधिगमिकं तु परोपदेशादिनोत्पद्यते, अत
औपशमिकसम्यक्त्वस्यैवोत्पत्तिरुच्यते, तथाहि-कश्विजीवोऽनादिकालालीनमिथ्यादर्शनवासनः सांसारिक दुःखं सुखमिव मन्वानः, असहर्शनमपि सहर्शनमिव जानानः, नरकगत्यादिचतप्रायस्यात्यतरस्यां गतौ वर्तमानः जानाचरणादि-14 सप्तकर्मणामनाभोगनिर्वर्तितगिरिसरिदुपलघोलनाकल्पयथाप्रवृत्तिकरणजनितसागरोपमकोटाकोट्यन्तःस्थितिकः, प-15 याससंन्निपञ्चेन्द्रियः, मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानानामन्यतरसाकारोपयोगे मनोवाकायानामन्यतरस्मिन् योगे तेजःपनशुक्ललेझ्याक्रमेण जघन्यमध्यमोत्कृष्टपरिणामानामन्यतरस्मिन् लेश्यापरिणामे च वर्तमानः, अशुभप्रकृतीनां चतुःस्थानकं रसं द्विस्थानकं शुभप्रफ़्तीनां तु द्विस्थानकरसं चतुःस्थानकं कुर्वाणः, ज्ञानावरणान्तरायदशकदर्शनावरणनवक-18 मिथ्यात्वकषायपोडशकभयजुगुप्सातैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणरूपाः सप्तचत्वारिंशद्रुवन्धिनीः