SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ मोहनीय कर्मक्षयोपशम (समुत्थ) शुभात्मपरिणामस्वरूपमेव दर्शनं सम्यक्त्वमेवाङ्गीक्रियते, यतस्तद्विना सकलक्रियाकलापपरिशीलनादिकमनर्थकम्, यदागमः - " भट्ठेण चरित्ताओ, दंसणमिह दढयरं गहेयवं । सिज्झन्ति चरणरहिया, दंसणरहिया न सिज्झन्ति ॥ १ ॥ " तत्परिज्ञानाच चिदानन्दपदवी न दवीयसी, उक्तं च“सम्यक् तत्त्वपरिज्ञानाद्धेयोपादेयवेदिनः । उपादेयमुपादाय गच्छन्ति परमां गतिम् ॥ २ ॥” तस्मिंश्चावासे | जीवेन किं किं न लब्धम् १ यदुक्तम् - " सम्यक्त्वरलान्न परं हि रतं सम्यक्त्ववन्धोर्न परोऽस्ति बन्धुः । सम्यक्त्वमित्रान्न परं हि मित्रं सम्यक्त्वलाभान्न परोऽस्ति लाभः ॥ १ ॥ तस्य सम्यक्त्वस्य किं लक्षणं स्यादित्याह 'तं पुणति' तत्पुनः सम्यक्त्वं तत्त्वार्थश्रद्धानरूपम्, ननु शाक्यकणभक्षाऽक्षपादकापिलवेदान्तयादिवार्हस्पत्यादिदर्शनप्रमाणीकृतान्यपि तत्त्वानि सन्ति, किन्तु तेषां न हिंस्यात्सर्वभूतानीतिपूर्वमुक्त्वा पञ्चाथ अनस्त्रां जन्तूनां शकटभरवधे एका हिंसेति पूर्वापरविरुद्धत्वेन परीक्षाऽक्षमत्वेन च तत्त्वाभासत्वादप्रामाण्यं तथा च तच्छाखं --- “ पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥ १ ॥ " तत्त्वं तदेवोच्यते, यत्परीक्षकपरीक्षालक्षैरपि सुजात्यजातरूपमिव न दूषयितुं शक्यते, यदुक्तम् - "तापच्छेदकषैः शुद्धं, सुवर्णमिव यद्भवेत् । युक्तिसिद्धान्त सिद्धत्वात्तत्तत्त्वमभिधीयते ॥ १ ॥” अतः सुनिरूपितजीवाजीवादिपदार्थपरिज्ञानरूपं तत्त्वं तस्यार्थोऽनन्तधर्मात्मकतया परिच्छेदस्तत्र श्रद्धानं परमार्थवृत्त्या निश्चली
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy