________________
दर्शनशुद्धिप्रकाशमित्यनेन विशेषणेन भगवतः श्रीमहावीरस्य लोकालोकालोकनाद् ज्ञानातिशयः, स च दुर्निवारान्तरङ्गशत्रुवित्रासनादेव स्थादित्यनेनैव विशेषणेनाऽपायापगमातिशयः, तीर्थकरमित्यनेनैव विशेषणेन निरुपमोपदेशवचनरचनाप्रतिबोधित भव्यलोकत्वाद्वचनातिशयः, जघन्यतोऽपि कोटिसंख्यैः सुरासुरैस्तीर्थकरः सेव्यतेऽतोऽनेनैव विशेषणेन पूजातिशयः, तदेवंविधस्य परमेशितुरुचितं नमस्कारकरणमिति । अथ कृतभावमङ्गलो गाथोत्तरार्द्धेन तत्खरूपमाह - 'दंसणसुद्धित्ति' दर्शनं प्राग्र्यावर्णितस्वरूपं सम्यक्त्वं तस्य शुद्धिर्निर्द्वषणता तस्याः स्वरूपं भेदप्रभेदलक्षणम्, 'कित्तेमित्ति' कीर्त्तयामि प्रतिपादयामि न स्वमनीषिकया, किन्तु 'सुयानुसारेणति' श्रुतानुसारेण सिद्धान्तयुक्तयेति, अत्र सम्बन्धो वाच्यवाचकलक्षणः, वाच्यं प्रकरणार्थः, वाचकं सूत्रम्, अभिधेयः सम्यक्त्वमूलद्वादशभेदतत्प्रतिभेद| (सप्तषष्टि) भेदखरूपनिरूपणम्, प्रयोजनं द्विधा, प्रकरणकर्तुः श्रोतु, तदपि द्विधा - कर्त्तुः (परं) परमपदसंपदवाप्तिः अपरं च भव्यजनप्रबोधानुग्रहः, श्रोतुरपि परं स्वर्गापवर्गनिरर्गलकमला लीलालालसत्वं, अपरं तु शास्त्रतत्त्वाववोधः, अत एंवविधं शास्त्रं विपश्चितश्चमत्कारकारि स्यादिति गाथार्थः ॥ १ ॥ सम्यग्दर्शन खरूपमाहदंसणमिह सम्मत्तं तं पुण तत्तत्थसद्दहणरूवं । खइयं खओवसमियं, तहोक्समियं च नायव्वं ॥ २ ॥
व्याख्या 'दंसणति' यद्यपि दर्शनशब्देन त्रिलोचनविलोकनपरतीर्थिकशासनादीनि कथ्यन्ते, तथापीह शास्त्रे