SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ * * * स्तोममपहरन्तो वसुन्धरायां विहरम्तो गात्रयष्टिशर्मदाननिदाननर्मदानदीजलप्लवोलासितलताकच्छे श्रीभरैरतुच्छे । श्रीभृगुकच्छे खच्छपरिच्छदसितच्छदविराजमानाः समवासार्युः । तत्र सौगतमतवासितखान्तो महसाऽधरीकृतमित्रो बलमित्रो नाम राजा प्रजाः पालयति स्म । ता र भलिभानिर्भरतमुन्धरेवरमान्यतया सोन्मादा यादविद्यावि-13 शारदाः सुगतशासनोद्भावनां विदधानाः श्रीमजिनशासननिन्दनमुखरमुखाः स्वाज्ञैश्चर्यमिव सर्वत्र प्रवर्तयन्तो वर्तन्ते । स्म शौद्धोदनिविनेयाः । तदा विवेकच्छेकाः श्रमणोपासका गुणगुरून् गुरून् प्रणिपत्य विज्ञपयन्ति स्म-भगवन् ! वयमकुण्ठशाठ्योलण्ठश्रीमदर्हच्छासननिन्दावचनमार्गणगणोधिसत्त्यैरुक्तियुक्तिसमुलासितखतत्त्वैविध्यमानाः सुतरां च पीच्यमानाः सकष्टं तिष्ठामः स्म । तस्मादमी भषणा इव भषन्तो वारणीयाः केनाप्युपायेन, यतः-खलानां कण्ट| कामां घ, द्विविधैव प्रतिक्रिया । उपानन्मुखमको बा, दूरतो वाऽपसर्पणम् ॥ १॥ ततः सूरयो दशनविशदच्छवि| विच्छुरितरदच्छदास्तानवदन्-भो भोः । श्राद्धा न वयं क्षमाधना नरकपतननिवन्धनं परैः सह वादं कुर्म इत्युक्त्वा । विरते गुरुभिस्तजामेयो भुवनाभिधानो मुनिर्यमबहुर्द्धपैस्तथागतानां स्पर्धिष्णनां गोमायूनामिव शार्दूलो निन्दामसहमानो वादमनिच्छूनामपि प्रभूणां वचनमुपादाय सम्राडिव वादरणाङ्गणे वचनरचनाखरतरशरप्रहारैर्जर्जरयन् सौ. गतप्रत्यर्थिनोज्जैषीत् । तमसमानमपमानमाकर्ण्य वृद्धकराभिधानो बौद्धाचार्यों जैनजयमृगतृष्णातरलितो गुडशस्त्रपुरादेत्यानात्मज्ञः सर्वज्ञपुत्रकेण भुवनर्षिणा सह राजसंसदि राजसभावतो विवदिषुः खमतामिमतमेवं पूर्वपक्षं * * *
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy