SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ MARA ज्ञात्वा, यति प्रकुपितं हरिः । गन्धर्वा गायनी प्रैषीत् , तत्प्रबोधाय बुद्धिमान् ॥ ९७ ॥ तत्कर्णाभ्यर्णमेत्यैता, गीनिका जगुरुपतः । रोबोरगगरानेग--भायामृतसारणीः ॥ ९८ ॥ क्रुधं मुञ्च क्षमाधार ।, यदर्थमियमादृता । स पापी नमुचिनिन्ये, भवता श्वभ्रगह्वरम् ॥ ९९ ॥ कुरुष्वोपशमे बुद्धिं, कुरुवंशशिरोमणे ! । नायं पन्था मुनीन्द्राणां, क्षमासारा हि साधवः ॥ १० ॥ कोपो मूलमनद्रोपिछलीघनागमः । भवपाथोधिशीतांशुः, शिवद्वारमहार्गला 8 ॥ १०१ ॥ एवं गन्धर्वनारीभिर्गीयमानं निशम्य सः। न प्राप कोपाटोपस्योपशमं श्रवणोऽपि हि ॥ १०२ ॥ ससकाः सुप्रताचार्यास्ततोऽमृतकिरा गिरा । तं मुनि शमयामासुः, क्रोधाने रपूरवत् ॥ १०३॥ महापद्मोऽपि विज्ञातवृत्तान्तस्तस्य शान्तये । चरणाने विलग्नोऽभात्कीटिकेव महीधरे ॥१०४॥ सोऽपि सम्प्राप्तचैतन्यो, रूपं मुक्त्वाऽथ वैक्रि-3 यम् । सहजस्थं तनुं भेजे, सहजो दुस्यजो यतः ।। १०५ ॥ तमुपालब्धवान् विष्णु-साधुरेवं नराधिप ! । पनोत्तरभुवस्त्वत्तो, युक्तमीदृग्विचेष्टितम् १ ॥ १०६ ॥ जानीषे त्वं न कि भूप!, यदवज्ञा जिनेशितुः । पराभवश्च साधूनां, दुर्गदुर्गतिहेतवे ॥ १०७ ॥ पतित्वा पदयोस्तस्य, खापराधं धराधिपः । क्षमयामास नैवाह, वेश्येतत्तद्विजृम्भितम् । ॥ १०८ ॥ पूर्वदत्तवरस्तेन, वश्चितो हा दुरात्मना । खलानां भुजगानां च, कौटिल्य केन लक्ष्यते ? ॥ १०९ ॥ एवं प्रसादयित्वा तं, प्रणय च विशां प्रभुः। ययौ ततो विष्णुराप, त्रिविक्रम इति प्रथाम् ॥ ११० ॥ गुरूणां सन्निधौ । IPविष्णु-कुमारोऽप्यथ पातकम् । समालोच्य प्रतिक्रम्य, शुद्धोऽभूत्स्फटिकाश्मवत् ॥ १११ ॥ यदागमः-आयरिए ।
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy