________________
यो यदा राज्यं, पालयेद्राह्मणादिकः । दर्शनैरपि सेव्योऽसौ यतो विघ्नविनाशकृत् ॥ ६७ ॥ किन्तु यूय व्यवहतेया दर्शननिन्दकाः । तस्मान्निर्गच्छत क्षिप्रं मद्राज्यान्मृतिरन्यथा ॥ ६८ ॥ सूरिर्दुष्टं तमाचष्ट नैषाऽस्मदर्शने स्थितिः । क्रियते नैव कस्यापि, निन्दा निर्ममतादृतैः ॥ ६९ ॥ शीतयाऽपि हि तद्वाणी-सुधयाऽप्युष्णतैलवत् । प्रज्वलन् ज्वलनप्रायां, नमुचिर्वाचमुज्जगी ॥ ७० ॥ दत्तं योऽस्ति मयैवात्रावस्थानं दिनसप्तकम् । यं यं द्रष्टाष्टमे घने, तं तं नेष्ये यमान्तिकम् ॥ ७१ ॥ विहस्तास्तत उत्थाय, मुनीनाहूय सूरयः । प्रोचुः किं किं विधातारोऽनर्थेऽस्मिन् समुपस्थिते ? ॥ ७२ ॥ गुरुतैर्जगदेऽस्मासु, न तारकोऽपि लब्धिमान् । यः कुर्यात्तत्प्रतीकारं, सद्वैद्य इव रोगिणः ॥ ७३ ॥ परं प्रभो ! समस्त्येकः, प्राज्यलब्धिमहाम्बुधिः । चक्रिणः सोदरो विष्णु कुमारस्तजयक्षमः ॥ ७४ ॥ षष्टिं वर्षसहस्राणि तवा येन महत्तपः । भूरिशः समुपार्ज्यन्त, वैक्रियादिकलब्धयः ॥ ७५ ॥ सोऽधुना भूधरे मेरौं, चतुर्मासीमवस्थितः । तं विनाऽन्यो मुनिर्नास्ति, नमुचिं शास्ति योऽधमम् ॥ ७६ ॥ गुरुरूचे नमोयाना - भावात्कस्तमिहाऽऽनयेत् ? । प्रांशुलभ्यं फलं पशु-रादत्ते किमु पाणिना ? ॥ ७७ ॥ ममास्ति मन्दरे गन्तुं शक्तिर्व्यावर्त्तने नतु । इत्येकः प्रवदन् साधुः, सूरिभिः समभाष्यत ॥७८॥ त्वामागच्छन्निहाऽऽनेता, स विष्णुर्मुनिपुङ्गवः । श्रुत्वेत्युत्प्लुत्य सोऽगच्छद्यत्राऽऽस्ते स ऋषीश्वरः ॥ ७९ ॥ तं वीक्ष्य विष्णुनाऽचिन्ति यद्वर्षासमयान्तरे । मुनिरेतदहं जाने, कार्य सङ्घस्य किञ्चन ॥ ८०॥ नत्वा श्रीविष्णवे तेन, सङ्घकृत्ये निवेदिते । सोऽपि तं सममादाय, गुरुपादानवन्दत ॥ ८१ ॥