________________
पारगाः १ ॥ २२ ॥ तस्मात्त्वया सह कथं विवदते मुनीश्वराः १ । सिंहस्य हि त्रपाकारि, युद्धं गोमायुना समम् ॥ २३ ॥ स प्रत्यक्षानुमानाभ्या मागमप्रोक्तयुक्तिभिः । संस्थाप्य धर्म्यमाक्षिप्य तं चाकापन्निरुत्तरम् ॥ २४ ॥ विविक्षुरिव पातालं, त्रपावेशादधोमुखः । मुनिना हृतसर्वस्य इवागान्नमुचिर्गृहम् ॥ २५ ॥ मुनिष्वनुशयं विनददभ्रं तद्वधाय सः । निशीथे निशितं खङ्गमादायागाद्वनान्तरे ॥ २६ ॥ असिं यावत्समाकृष्या - धावन्नमुचिरातुरः । हन्तुं साधूंस्तावदाथ - स्तनात्तं शासनामरी ॥ २७ ॥ गुरुत्वादिव पापस्य विचेष्टो दुष्टधीरभूत् । तद्वृत्तज्ञापनायेवोदुगच्छच्चा हिमद्युतिः ॥ २८ ॥ तद्वैशसं जनाः प्रातर्देवीतः श्रुतपूर्विणः । निनिन्दुर्नमुचिं पापं, हाहा धि धिग विगित्यहो ॥ २९ ॥ अभ्यर्थ्य सूरयो देवी, करुणार्द्रहृदस्तकम् । बन्धनान्मोचयामासुः सन्तः सर्वहिता यतः ॥ ३० ॥ राज्ञाऽपि ज्ञातवृत्तेन दुर्वृत्तः सचिवोऽथ सः । निवासि निजाद्देशात्सकृमिश्वेव मन्दिरात् ॥ ३१ ॥ विहस्तो नमु चिर्मन्त्री, श्रीहस्तिनपुरं गतः । महापद्मकुमारस्य, सचिवत्वं प्रपन्नवान् ॥ ३२ ॥ इतश्च कुरुदेशस्य सीनि सिंहचलो नृपः । निसर्गदुर्गतो दुर्गान्निर्गत्य मृगराजवत् ॥ ३३ ॥ सदाऽवस्कन्ददानेन श्येनवन्निश्चलच्छलः । महापद्मकुमारस्य, ग्रामाद्यं प्रबभञ्ज सः || ३४ ॥ युग्मम् | एकदा श्रीमहापद्मो, नमुचिं स्माह कोऽपि मे । योधेष्वस्ति महायोधो, योऽमुं सिंहवलं जयेत् ? ॥ ३५ ॥ महापद्मकुमारं स कृताञ्जलिपुटो जगी । स्वाधीने मयि भृत्ये किं, स्वा| मिन्नादिश्यते परः १ ॥ ३६ ॥ घीसखः स तदादिष्टो, बलच्छलकलागृहम् । भङ्क्त्वा दुर्गे च तं बध्वाऽनैपीत्सिंह