________________
निवोहो, निम्मिओ जह निमिसनलेवं । सासणुन्नहकए तह भवा, ! उज्जमं लड्डु तयंमि कुबेह ॥ १ ॥ निमित्तप्रभावकविषये श्रीभद्रषाहुखामिकथा । चतुर्थ नैमित्तिकलक्षणमुक्त्वा पञ्चमं तपखिखरूपं गाथापूर्वार्द्धेनाह
जिणमय सुभासंतो विगिट्टखमणेहि भण्णइ तवस्सी ।
व्याख्या - विशिष्टानि यानि क्षपणानि अष्टमादीनि सांवत्सरिकपर्येतानि तपांसि अथवा बाह्याभ्यंतरानशनाअमौदर्यवृत्तिसंक्षेपरसत्यागकायक्लेशसंलीनताप्रायश्चित्तविनयवैयावृत्यखाध्याय ध्यानव्युत्सर्गभेदैर्द्वादशप्रकाराणि तैर्विकृष्टक्षपणेः 'जिनमतं' श्रीमदर्हच्छासनम् 'उद्भासयन्' प्रभावयन् 'तपखी' तपश्चरणकृद्भण्यत इति गाथापूर्वार्द्धार्थः, भावास्तु विष्णुकुमारचरित्रादवसेयः तथेदम् —
भरते भरतः श्रीणां भूमौ निश्चलतां गतम् । हस्तिनागपुरं भाति, कुरुमण्डलमण्डनम् ॥ १ ॥ तत्रेक्ष्वाकुलस| द्वंशपद्मपद्मसुहृन्निभः । पद्मोत्तर इति क्ष्मापः क्षात्रक्षेत्रजयाङ्कुरः ॥ २ ॥ नानावर्णमयं विश्वं विश्वस्य जयवादिना । येनैकवर्णतां नीतं यशसा हारहारिणा ॥ ३॥ तस्याभूत्प्रेयसी ज्वाला, ज्वालामालोज्वलघुता । मन्ये यया जिता त्रिथुज्वालाम्भोदे न्यलीयत ॥ ४ ॥ सत्पक्षा विशदच्छाया, विवेकगुणशालिनी । या चाऽऽर्हद्धर्मकासारे, राजहंसीयतेतराम् ॥ ५ ॥ गर्जत्पञ्चाननखन – सूचितस्तनयोऽनया । विक्रान्तः सुपुत्रे विष्णु कुमार इति विश्रुतः ॥ ६ ॥ चतुर्दशमहास्वन-सूचितस्तुचितः सताम् । महापद्मोऽपरः पद्म-बन्धुवत्तेजसोल्वणः ॥ ७ ॥ युग्मम् । क्रमाथ तात्र