________________
इति तद्वचः श्रयणाभरणीकृत्य सपरिजनो धनो धनकोटीः सहादाय दृकटाक्षच्छटाविघटितसुभगजनानन्दिनी नन्दिनी च श्रीवज्रसंसदमाससाद ! तस्पिन धणे भुग्लिो जादा धर्मदेशल्या प्रतिबुद्धाः परस्परमित्यभाषन्त-याग् गुरूणां खरा|दिगुणः सरसस्तादृग् चेद्रूपसौभाग्यमभविष्यत्तदा सुवर्ण सुरमि(भ)मजनियदिति सभ्यजनाभिप्राय विज्ञाय भगवान् । सुवर्णसहस्रपत्रकमलस्थसिंहासनस्योपरि सूर्यवत्तेजःपुञ्जमयं रूपं निर्माय तस्थिवान् । ततो विस्मयविस्फारितविलोचनो लोकोऽहो अहो उभयथापि स्मरजयिनो भगवतः खाभाविक रूपं, पश्यत, पश्यत पूर्व मा स्वीजनक्षोभाय भ
यमित्यात्मानं कुरूपं दर्शितवान् , अतः किमुच्यतेऽस्य महात्मनो माहात्म्यमिति वर्णनोन्मुखरमुखो बभूव, भग-2 ४|| वानप्युवाच-भो भो मा विस्मयं कुरुत, ये महात्मानस्ते विविधै रूपैर्जम्बूद्वीपाद्यसङ्ख्यद्वीपानपि पूरयन्त्यतः किमत्र चित्रं ?, अत्रान्तरे धनश्रेष्ठी भूतलमिलन्मौलिः कोमलवचनैर्धनकोटिभिः सह खसुताविवाहमहमयाचिष्ट, ततो निःस्पृहशिरोमणिः खामी विषयवैमुख्यमेवं व्याचक्षी-किम्पाकफलसमानाः, कटुकविपाका इमे मुखे मधुराः । भोगाः । श्मशानभूवत्समन्ततो भूरिभयजनकाः ॥ १॥ किं वचनबहुरूपैर्विषयान् दुखौघकारणं मत्वा । कः श्रेयोनिःश्रेयस
पदाभिलाषी निषेवेत ? ॥ २॥ यद्येतस्या मय्येकान्ताभिलाषः तदेयं सर्वसङ्गविरतिमाचरतु, एवं श्रुत्वा रुक्मिण्यपि है प्रक्षीणविषया महोत्सवपूर्व प्रथमाज । भगवानपि पदानुसारिलब्ध्या महापरिज्ञाध्ययनोद्धृतगगनगामिवियया तिकागज़म्भकदेवदत्तविद्याभिश्वेच्छासञ्चारपरः समगृतत । एकदा पूर्वदेशात् सूरय उत्तरां दिशं विजहुः, तत्र विधिय