SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ वर्तमान दशपूर्वथनं पीप्यतीति स्वप्रफलं. वोऽपि तस्यां निशि पुर्या बहिरुषित आसीत् , स तेपामकुण्टोत्कण्ठा-18 वता वसतिं ययौ, तैरप्यानन्दामृतश्राविण्या दृशा ददृशे, श्रीवञोऽयमित्युपालश्यत च, ततः सम्मुखमुत्थाय , सूरिभिः स आलिलिङ्ग, मुनिभिरप्यातिथेयं विधिना प्रतिपेदे, तेनापि विनयविनीतेन गुर्वन्तिकेऽधीतानि दशापि पूर्वाणि, तदध्ययने चैषा युक्तिः पूर्वाणां यत्रोद्देशस्तत्रैवानुज्ञा विधीयते, यतः-जत्थुद्देसोऽणुनावि तत्थ कज्जइ कमो 5 इमो अस्थि । दिट्टीवायमहागम-सुत्तत्थाणं तओ पुच्छा ॥ १॥ तेन हेतुना श्रीसिंहगिरयो वनखामिने सर्यद्रव्यप-14 र्यायानुज्ञारूपामाचार्यपदवीं दित्सयो दशपुरमलंचक्रुः, तदा तत्सुहृदस्तिर्यगजम्भकसुरा अयसरज्ञाः श्रीवज्रसूरिपदस्थापनायां महामहं पुष्पगन्धादिवृष्टयाऽकार्युः । ततः सिंहगिरिगुरवः श्रीवत्रखामिनि न्यस्तप्रशस्तगणभारा गृहीता-12 नशना महर्द्धिकदेवपदयीमासेदुः । ततो भगवान् युगप्रधानः श्रीमुनिपञ्चशतीयुतो रूपादिगुणेर्जनतां रजयन् ग्रामपुरादिषु विहरति स्म । इतश्च कुसुमपुरे धनो नाम श्रेष्ठी वसति स्म, तस्य शीलादिगुणैर्मनोज्ञा मनोज्ञा नाम र-14 [हिणी, तयोर्लावण्योपहसितरुक्मणी रुक्मणी नाम तनया, सा च क्रमेण पञ्चशरप्रसरलीलावनं यौवनं प्रपन्ना। कदाचित्सा खयानशालास्थितसाध्वीनां सविधमगमत् , ताभिरखिलकलाकुशलं वनखामिनमनुदिनं वर्ण्यमानमाकर्ण्य सा तद्गतचित्ता तमेव पतीयितुमिच्छन्ती न्यषेधि-वत्से ! मैवं कदाग्रहमकार्षीः, स महात्मा सर्वथा विजितविषयो । रागमन्थरया दृशाऽपि त्वां नेक्षितुमर्हति, तन्निशम्य सा सहस्रगुणीकृतानुरागैवं प्रतिज्ञातयती-यदि स मां नोप CMC
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy