________________
प्रवर्द्धमानताभनीयत ततः साधुसंनिधौ पूर्वगतश्रुतेन श्रवणमात्राधीतेन बहुश्रुतीभूय खात्मानमप्रकाशयन् स्थवि - राणां पार्श्वे सालस्य इव गिणगिणध्वनिमधीयानः स तैरज्ञाततत्स्वरूपैः पउनाय प्रेर्यमाणः कियन्तं समयं गमयामास । एकदा दिनयौवने विहतु गतैः साधुभिः शरीरचिन्तार्थं च गुरुभिर्बहिः प्रासैर्वजर्षिरेकाकी वसतिस्थितः साधूनामुपकरणवेष्टिका मण्डलीक्रमेण निवेश्याध्ययनपरिपाटिमनुस्मरन्मेघगम्भीरखरेण वाचनां वितरीतुमारब्धवान् । अथ द्वारस्थैः पूर्वायातसाधुशङ्किभिर्गुरुभिः क्षणमुपयोगं दत्त्वा यावत् अस्थीयत तावत्पूर्वाङ्गोपाङ्गाध्ययनपठनरूपो वज्रस्यैव ध्वनिरश्रूयत, ततश्चित्ते चमत्कृता गुरवोऽचिन्तयन्, माऽसौ सहसाऽस्मान् वीक्ष्य लज्जेतेति दूरस्थ एवो चैनपेधिकीशब्दमकार्षुः, तत्तो मङ्क्षु वयो श्रेष्टिकादि यथास्थाने मुक्त्वा गुरुक्रमाँ रजोहरणेन प्रमार्ण्य करकमलाइण्डकमादाय यथास्थाने निषसाद । अथ श्रीसिंहगिरिसूरयो हदीत्यचिन्तयन्-मैनं गुणरलरत्नाकरं साधयः पराभवन्त्विति, तद्गुणज्ञापनाय ग्रामान्तरगमनव्याजात्साधून् प्रति स्माहुः - हंहो वत्सा ! वयं कतिचिद्दिनानि केनापि हेतुना विजिहीर्षवः, ततः पठनशीलाः साधवो गुरून् विज्ञपयांचक्रुः- पूज्याः । कोऽस्माकं वाचनां दाता ?, ततः सूरयो न्यगदन् - एष वज्रो भवतां याचनाचार्यो वाचनामनोरथरथसारथीभावमा श्रयिष्यति तेऽप्याश्चर्यचर्या चर्याभृतो विनीतविनयत्वादोमितिगुरुवचः प्रत्यपद्यन्त ततो गुरुषु विहृतेषु गुरुवत्तं वाचनाचार्यकृत्याङ्गपूर्ववाचनामधिकाधिकमाददानाः साधषो विसिष्मियिरे, च तेषु मन्दमतयस्तेऽपि तन्महात्म्याद्विपमतमानप्यालायकान् हेलयैवाकलयामासुः, एवं च