SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ तत्परीक्षार्थी वणिक्सार्थ विकृत्यावात्सुः, तत्र रसवत्यादिरचनामासूत्र्य गुरून् प्रणिपत्य च वज्रं प्रातराशाय निमन्त्रयामासुः, सोऽपि गुरुभिराज्ञप्तो विहर्तुमुद्यतो नभसः पतन्तीरम्बुकणिका विलोक्य प्रतभङ्गभीरुर्ष्यावर्त्तस, तेऽपि देवमायया दृष्टिमवरुध्य पुनराग्रहं विधायाहारग्रहणाय तं न्यमनयन् सोऽपि दत्तोपयोगस्तत्सार्थमागत्य द्रव्याद्युपयोगं ददानो हृद्येवमचिन्तयत्- सम्प्रतीदं पुष्पफलादिकं द्रव्यमेतत्सार्थे विलोक्यमानं न सम्भवत्यस्मिन् समये क्षेत्रे तु उज्जयिन्यां काले वर्षासमये भावे चामी जना अस्पृष्टमहीपृष्ठा अनिमिषलोचनत्वेनावश्यं देवाः, एवं द्रव्याद्यविशुद्धो | देवपिण्डो महात्मनामनुपादेयो भगवद्भिरादिष्टः, तस्मान्मयैभिः सादरं प्रदीयमानोऽपि न ग्राह्म इत्यएहीतभिक्षः स यावयाघुटत् तावत्तचरित्ररञ्जितास्ते निर्जरास्तमभिनत्य विज्ञपयांचकुः - मुनिपुङ्गव ! भवद्दर्शनार्थे प्रीतिप्रेरिता वयमत्राजग्मिम, तत्प्रसीद, गृहाण बहुरूपिणीं विद्यां, अनुगृहाण नः, ततो विनयविनता विद्यां दत्त्वा सुरा अन्तर्दधुः । पुनरन्यदा ज्येष्ठमासे त एव देवाः कृतकृतकरूपा बहिर्भुवं गतं वज्रं घृतपूरैर्न्यमन्त्रयन्, सोऽपि पूर्ववत्कृतोपयोगो घृतपूरपूरं नोपाददे, अहो निरतीचारचारित्रपरिणामोऽमुष्य शिशोरपीति प्रशंसामुखरमुखास्ते जृम्भकामरा आमानुषोचरगिरियायिनीं विद्यां तस्मै वितीर्य तिरोऽभवन् । एवं स शैशवेऽपि वयसि वर्त्तमानो ग्रामाकरनगरादिषु गुरुभिः सह विहरन्मुनिजनस्पृहणीयोऽजनि, यतः - बालस्यापि रयेः पादाः पतन्त्युपरि भूभृताम् । तेजसा सह जातानां वयः कुत्रोपयुज्यते ? ॥ १ ॥ यच तेन साध्वीनां मध्यवर्त्तिनाऽङ्गादि श्रुतमधीतमभूत्तत्पदानुसारिलच्ध्या
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy