________________
%
*
e
* RAMANCE
ग्रहान्न विरराम, समीपस्थान साक्षिणश्वाभाषत-अनेन तनयेन सह न मम प्रयोजनं, अत एतजनक एवासावमुं गृह्णात्विति तया निश्चिते धनगिरिः साक्षिसमक्षं चिन्तारत्नमिव तं शिशुं गृहीत्वा पात्रबन्धे न्यवेशयत् , ततः सह ज्ञानवान् भावनमणो जातोऽहमिति रोदनान्यवर्त्तत, धनगिरिणा च तद्भारभुमभुजेन स सिंहगिरिगुरूणामभ्यर्णमानिन्ये, तेऽपि तं तथा वीक्ष्य तरसोत्थाय भृतपात्रधिया यावत्पात्रबन्धमुपाददते तावत्तं बालमालोक्य महाभारत्वामोउमिति सुषसे स, महरास पान इति नाम जगति पप्रथे । ततस्तं सुरकुमारानुकारमुदारलक्षणालक्षितामा यीक्ष्य सूरय इत्यचोचन्-यदेष प्रवचनाधारो भावीति सम्यग्ररक्षणमहतीति निश्चित्स गुरुभिस्तपोधनाभ्यः स वालः पालनाय दत्तः, ताभिरपि स्तन्यपानादिहेतवे शय्यातरीभ्यः प्रददे, ततस्ताभिः सपुत्राणां स्तन्यपानमण्डनादि यदा । यदा क्रियते, तस्यापि तदा तदा प्रासुकविधानेन विधीयते, गुरवोऽपि शिक्षां दत्त्वाऽन्यत्र विजहुः । अथैकदा सु. नन्दा नन्दननेहेन शय्यातरगृहेषु याताऽऽयातानि कुर्वती शय्यातरीभ्यस्तमयाचत, ताभिरपि साऽभ्यधीयत-12 गुरूणामयं न्यासो नान्यस्मै जातुचिद्वितीर्यत इति निषिद्धापि सा प्रत्यहमेत्य तं स्तन्यपानादिकं कारयति स्म । एवं , वर्षत्रये व्यतीते सूरयः समैयरुः, तदोभयोरपि पक्षयो राजसमक्षं शिशुहेतवे महान् कलहः समवृतत्, ततो राज्ञा , धनगिरिरपृच्छयत-किमर्थमेनं दारकं सुनन्दायै न वितरसि ?, तेनाप्यभाणि-महाराज ! न मया स्वयमेष जगृहे, । किं त्यनयैव जनसमक्षमस्मभ्यं वितीर्णः, ततोऽत्र को विवादः ?, नृपोऽपि तदाकर्ण्य सबै जनं तत्पक्षपातिनमवगस