________________
व्यत्, तदेदानीमतुच्छं जन्मोत्सवमक रष्यद्' इति । तासामचलानामालापान् ग्यन्नबालमतिः स बालः सञ्जातजातिस्मृतिरिति चिन्तितवान्- कथं मम दत्तनिर्वृतिः सर्वसङ्गविरतिर्भवित्री ? सवित्र्यां मन्मोहमोहितखान्तायां, अतो मातृदुःखदानमनुचितमपि परमसुखलाभाय क्रियमाणं न दोषपोषाय, तस्मादम्बां तथा क्लेशयामि यथोद्विज्य मामुज्झति 'बालानां रुदितं वल' मिति विचार्य तथा स रोदितुं प्रावर्तिष्ट यथा माता न शेते न भुङ्क्ते नोपविशति न च गृहकर्माणि विधत्ते, एवं दुष्टकष्टाम्भोधिमनायास्तस्याः कथमपि षण्मासीमतिचक्राम । अत्रान्तरे पुरीपरिसरोद्याने सपरिकराः श्रीसिंहगिरिसूरयः समचासरन्, प्रवृत्ते च गोचरचर्यायाः समये धनगिर्यार्यसमितमुनी स्वाध्यायं विधाय कृतोपयोगौ गुरुभिरुदीरितौ - बत्सायद्यास्माकं किञ्चिदुत्तमं निमित्तमजनि, ततो गोचरचर्यायां यदचित्तं सचित्तं वा वस्तु लभेतां तत्प्रतिप्रात्यमेवेति गुरुणाऽनुज्ञातो ज्ञातेयसदनेषु भ्रमन्तौ तौ सुनन्दागृहं प्रविष्टौ । ततः सा करकमलसम्पुटरगृहीताङ्गजा दुःखविधुरिता धनगिरिमवोचत् - एष तेऽङ्गजः षण्मासीं यावन्महाक्केशविवशया मया पालितः, सम्प्रति तु त्वमेनमुपादत्स्व, यथा त्वमपि महत्सुखमनुभवसि नाहमतः परं पालयितुं क्षणमपि क्षमा, तदनु घनगिरिश्वादीत् - भद्रे ! यद्येनमहमुपादास्ये तदा पश्चात्तापं त्वमनुभविष्यसि, तस्मान्मैनं वितर, सहसा हि क्रियमाणं कृत्यं सन्तापाय संपनीपद्यते, यतः - सगुणमपगुणं वा कुर्वता कार्यजातं परिणतिरवधार्या यत्नतः पण्डि - तेन । अतिरभसकृतानां कर्म्मणामाविपत्तेर्भवति हृदयदाही शल्पतुल्यो विपाकः ॥ १ ॥ एवमुक्ताऽपि सा तस्मादा
I