________________
सत्यं, सामग्र्यभावान्न निवृत्तिमासादयन्ति यदुक्तं " सामग्गिअभावाओ, चवहारियरासिअप्पवेसाओ । भवावि ते अणंता, जे मुक्खसुहं न पायंति ॥ १ ॥" अभव्यानां तु दुरापास्तैय मुक्तिकथा, अत एव भव्यशब्दोपादानं । 'धम्म कहित्ति' धर्मकथाऽस्यास्तीति धर्म्मकथी 'कहणलद्धित्ति' कथने - व्याख्याने लब्धिर्यस्य स कथनलब्धिकः, कश्च - नापि घटप्रदीपवत्स्वयमवबुध्यमानोऽपि न परं बोधयितुं क्षमः अत प्रवचनव्याख्यानार्हः, यस्तु क्षीरमध्वाश्रवा - दिलब्धिमान् हेतुयुक्तिदृष्टान्तैः परं प्रतिबोधयति स एव धर्म्मकथानुयोगार्हः, यदागमः – जो हेउवायपक्खम्मि उओ आगमम्मि आगमिओ । सो समयप्पन्नवओ, सिद्धविहगो अनी ॥ १ ॥ अत एव कथनलब्धिक इति । विशेषणं युक्तियुक्तमिति गाथोत्तरार्द्धार्थः ॥ ३ ॥ भावार्थस्तु प्रावचनिकधर्म्मकथिकप्रभावकयोः श्रीवज्रखामिच|रित्रेणैव प्रतन्यते ।
तथाहि--अस्त्यपहस्तितसमस्त क्लेशः श्रीमानवन्तिदेशः, तत्रामन्दसम्पदामादेशस्तुम्बकनामाख्यः सन्निवेशः, तस्मिंश्च यशोधवलिना पराभूतधनदगिरिर्घनगिरिनामा नैगम इभ्यसुतो गुणवसतिर्वसति स्म, स शैशवादपि विज्ञातसर्वज्ञप्रवचनसारो विषयपराचुखो दीक्षाभिमुखो यां यामिभ्यकन्यां पितरायाददाते तां तां न्यवारयत्, यदहं दीक्षामा - दास्ये, विरागसूचकं वच इत्यपीपठच - यस्यां नृत्यति निर्भरं प्रमुदिता माया महाराक्षसी, यस्यां मोह इतस्ततश्छलयति प्रेताधमः प्राणिनः । यस्यां प्रज्वलति स्मराभिरनिशं तां कोविदः कामिनीं, कल्याणी क इह श्मशानविषमामा