________________
२%
%
जम्मिवान् ।। २५ ॥ निपीय केऽपि तद्वाक्य-परन्दं मधुपा इव । श्रीमजिनमतोद्याने, जगुरईद्गुणावलिम् ॥ २६ ॥ |श्रुत्वा सुराष्ट्राषणिजश्चरित्रं, कुलिङ्गिसङ्गं सजताशु भव्याः ! । येन ध्रुवं दर्शनशुद्धिमाप्य, खर्गादिसौख्यैः सुहिता | भवेयुः ॥ २७ ॥ मिथ्याष्टिपरिचये सुराष्ट्राश्रावककथा । 8 इतिश्रीरुद्रपलीयगच्छगगनदिनकर श्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसमतिकावृत्ती
तत्त्वकौमुदीनाम्न्यां शङ्कादिपञ्चदूषणखरूपनिरूपणो नाम पञ्चमोऽधिकारः । पञ्चमं शतादिदूषणाधिकारमुक्त्वा षष्ठं । प्रभावकाधिकारमाहसम्मईसणजुत्तो, सइ सामत्थे पभावगो होइ । सो पुण इत्थ विसिठ्ठो, निदिट्टो अट्टहा सुत्ते ॥ ३१ ॥
व्याख्या-'सम्यग्दर्शनयुक्तः' अतीचाररहितसम्यक्त्वसहितः सामर्थ्य विद्यमाने-तत्तलब्धिविशेषसबलत्वे 'प्रभावकः' श्रीजिनशासनप्रभावनाप्रवीणधिपणो 'भवति' जायते, स पुनरत्र सूत्रे जिनप्रणीतसिद्धान्ते 'विशिष्टः' प्रोलसज्ज्ञानादिगुणैः प्रकृष्टोऽष्टधा-अष्टभिः प्रकारैनिर्दिष्टः-कथित इति गाथार्थः ॥ ३१ ॥ तानेवाष्टौ भेदान्ड स्पष्टयन्नाहपावयणी धम्मकही वाई नेमित्तिओ तवस्सी य । विजा सिद्धो य कवी, अद्वैव पभावगा भणिया ॥३२