SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ भुञ्जते मठे । तत्र कङ्कणकेयूर - मुद्राभिर्मण्डितं करम् ॥ ११ ॥ प्रकटीकृत्य शाक्येभ्यो ददानो मोदकादिकम् । समस्तं कृतवांलोकं, सादरं बौद्धशासने ॥ १२ ॥ युग्मम् । तत्प्रभावमदोन्मादप्रोल्लण्ठाः शठचेतसः । अपनिन्द्यं तु निन्दन्ति, भिक्षत्रो जिनशासनम् ॥ १३ ॥ किमन्यैदर्शनैर्लोकाः !, सेवध्वं शाक्यशासनम् । यत्र देवा अपि सदा, सेवाहेवाकशालिनः ॥ १४ ॥ एकदा केऽपि सूरीन्द्रा, विद्यासिद्धा वसुन्धराम् । विहरन्तः समाजग्मुरुज्जयिन्यां महौजसः ॥ १५ ॥ श्राद्धैस्ते बौद्धवृत्तान्तं ज्ञापिता ज्ञानभानवः । प्रैषिषन् शिक्षयित्वेति, गीतार्थी द्वो महामुनी ॥ १६ ॥ सौगतानां मठे हस्तो, यदा निर्याति दैवतः । तं विधृत्य स वक्तव्यो युवाभ्यामुच्चकैरिदम् ॥ १७ ॥ अहो बुध्यख बुध्यख मा मुख गुह्यकोत्तम ! । स्मर पञ्चनमस्कारं, पाथेयं शिववर्त्मनः ॥ १८ ॥ मठायाती यती बौद्धैर्निमध्येतां मदोद्धुरैः । अन्तःप्रविष्टौ तौ हस्तमदा च विनिर्गतम् ॥ १९ ॥ निरुध्य हस्तं तौ व्यक्तमवक्तां गुरुवाचिकम् । तदाऽऽकर्णनतो यक्षः, प्रत्यबुध्यत तत्क्षणात् ॥ २० ॥ अचिन्तयत्र हा धिग्मां यस्य मे जिनशासने । विज्ञस्यापि कथं मोहोऽभूमिध्यादृष्टिसङ्गतः १ ॥ २१ ॥ आविर्भूय ततो यक्षः, सौगतांस्तदुपासकान् । अपरानम्युवाचोचः, श्रूयतां भो ! वचो मम ॥ २२ ॥ अन्ये दर्शनिनः सर्वे मिथ्यारूपाः प्रकीर्त्तिताः । तथ्यमेकं तु विज्ञेयं, श्रीजिनेश्वरशासनम् ॥ २३ ॥ तो मिध्यादृशस्त्यक्त्वा श्रयध्वं जिनशासनम् । यथा करतलक्रोडीस्यात् श्रीः स्वर्गापवर्गयोः ॥ २४ ॥ इत्युदीर्य ततो गत्वा, सूरीन्नत्वाऽतिचारजम् । पापमालोच्य जैनं स मार्गमुद्भाव्य
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy