SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ स्तितापरदर्शनाः तेऽमात्यवत्परमसुखभाजः स्युः । श्रुत्वेति भूमिपतिमत्रिचरित्रमत्रा-कासाख्यदूपणमिदं परिहत्य सम्यक् । सम्यक्त्वशोधनविधावधिकं यतध्वं, येन श्रियः शिवपुरस्य वशीभवेयुः ॥ १॥ कालायां नृपमत्रिकथा । द्वितीयमाकाङ्क्षादूषणमुक्त्वा तृतीयं विचिकित्सादोषं गाघापूवार्द्धनाह विचिगिच्छा सफलं पड़ संदेहो मुणिजणम्मि उ दुगंछा । व्याख्या-विचिकित्सा- जिनवचनाराधनफलं प्रति सन्देहः, सा हि सत्यपि युक्त्यागमोपपन्नेऽहद्धर्मेऽस्य महतपसः क्लेशस्य सिकताकणकयलवनिःस्वादस्यायत्यां फलसम्पद्भवित्री ? अथ क्लेशमात्रमेवेदं निर्जराफलविफलमिति?, । उभयरूपा हि क्रिया विलोक्यन्ते-सफला निष्फलाश्च, कृषीवलादीनामिव तथेयमपि सम्भाव्यते । यदाह-अवरपु-1, रिसा जहुचियमग्नचरा घडइ तेसि फलजोगो । अम्हेसुंधीसंघयणविरहओ न तहा तेसि फलं ॥१॥ इति विचिकित्सा | भगवद्वचनानामविश्वासरूपत्वात्सम्यक्त्वदोषः, इयं तु शङ्कातो भिद्यते, शक्का हि सकलपदार्थभाक्त्वेन द्रव्यगुणविषया, विचिकित्सा तु क्रियाविषयैव, अतः खफलं प्रति सन्देहः, यद्वा मुनिजनेषु जुगुप्सा, सा च सदाचारमुनिविषया, यथा- अनानेन प्रस्खेदजलबिन्दुक्लिन्नमलत्वाहुर्गन्धवपुष एते, को दोषः सात् ? यदि प्रासुकवारिणाऽङ्गप्रक्षालन कुरिन्निति । अत इयमपि भगवद्धर्मानाश्वासरूपत्वात्सम्यग्दर्शनदोष इति गाथापूर्वार्द्धार्थः ॥भावार्थस्तु शुभम-15 हतीदृष्टान्तेन निष्टक्यते * AGRAA
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy