SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ SARASWARAN तस्य चाभूत्प्रभूतविचारचातुरीलहरिसागरो मतिसागरो नाम मन्त्रीश्वरः--उपायचतुरा यस्य, धिषणा सर्वतोमुखी । रोहाभयकुमारादिप्रतिभावर्णिकायते ॥ १॥ अन्यदा सुधासाधर्मिकायां सामान्तामात्यमण्डितायां सभायामासीनस्य महीनस्य प्रतिहारनिवेदितः कश्चिदश्वव्यवहारिकस्तेजोभटजकाम्बोजपारसीकवाहीकप्रभृतिनीकृत्समुद्भूताश्वतुरतरगतिपराभूतपुरुहूतवाजिनो वाजिनः समादायाजगाम । राजाप्यचपरीक्षादक्षतया शेषानशेषानभानसारान् परिहत्य चिन्तामण्याद्यावर्तयिवर्तमनोहरं चपलचपलाविलासहासकारिगतिप्रसरं हिमकरकिरणधवलं तुरगयुगलं जग्राह । ततस्तद्रहःपरीक्षेक्षणाय क्षणादश्चवारमानितयाऽवमत्यामात्यादिराजलोकप्रतिषेधोक्तिं स्वयं मूलामात्सेन सह राजा वाजिनमारुम वाखालीमहीतलमलञ्चकार सारसैन्यपरीवारः । तत्राधोरितयलिगतोप्लुत्युत्तेजितोत्तेरितमण्डलीप्रमादिगतिदर्शनचमस्कृते राजलोके सति राजामासौ वेगवत्तादर्शनाय दत्तकशाप्रहासवधरीकृतपयनजवनाम्या खेलवत् दूरीकृतखचक्राभ्यां खभाषचक्राभ्यां कुशिष्यवद्विपरीतशिक्षिताभ्यां ताभ्यां तार्थ्याभ्यां काप्यमानुषे दत्त-* दैन्ये शून्येऽरण्ये पातितौ । श्रमक्षुत्पिपासाविधुरितशरीरौ मूर्छामतुच्छामनुभूय शिशिरसमिरप्रेजोलनाप्राप्तचैतन्यो । सर्वतः प्रसारितनयनौ संसारमिव दुरन्तकान्तारमसारतरुनिकरपरिपूरितमवलोकयन्तौ परासूभूततुरगौ व्यालाधव-13 लोकनकान्दिशीको जलफलनिभालनाय पर्यटन्तौ कापि खजीवितव्यमिव निर्झरमेकमापतुः । तत्र सानपानीयपानादिना खस्थचित्तौ तन्निकटवर्चिफलमूलकन्दायाहारयन्तौ दैवस्थितिचिन्तनेन मनो धीरयन्तौ कियन्तमपि समय।
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy