________________
यूपयूपद्रवमिव नियतं श्रोत्रपात्रैर्निपीय । शङ्कादोषापहारात्तनुत भवभृतोऽर्हन्मते सन्मति भो !, येन त्रैलोक्यलक्ष्मीः श्रयति झमिति वः सर्वदाऽऽनन्ददात्री ॥ ९३ ॥ आशङ्कायामार्यापाढकथा । आद्यं शङ्कादोषमुक्त्वा द्वितीयं कालालक्षणं दूषणं गाथोत्तरार्द्धेनाह,
कंखा कुमयभिलासो दयाइगुणलेसदंसणओ ॥ २९ ॥
व्याख्या - काङ्क्षा कुमताभिलाषः - अन्यान्यदर्शनग्रहणेच्छा कस्माज्जायते ? 'दयादिगुणलेशदर्शनात्' कापि कमपि जीवदयादिकं गुणमवलोक्य तदेव दर्शनमाकाङ्क्षति, सा च द्विधा-सर्वविषया देशविषया च तत्र सर्वविषया सर्व - पाखण्डिधर्म्माकाङ्क्षारूपा, देशाकामा रखेकादिदर्शनविषया चायुतेन भिक्षूणामक्लेशको धर्म उक्तः स्नानान्नपान - विलेपनाच्छादनशयनीयादिषु सुखानुभवनद्वारेण तथा परिमाजकलौका यति कत्राह्मणादयोऽपि विषयानुपभुआना एव परलोकेऽपि सुखेन युज्यन्त इति साधीयान्यमपि धर्मः । एवमाकाङ्क्षाऽपि परमार्थतोऽईत्प्रणीतागमानाश्वासरूपा सम्यक्त्वं दूषयतीति गाथार्थः ॥ २९ ॥ भावार्थस्तु जितशत्रुनृपमतिसागरमन्त्रिदृष्टान्तात् ज्ञेयः, स चायम् -
अस्ति स्वस्तिमत्समस्तसम्पदावासं वस्वोकसारासङ्काशं सज्जनावदानप्रवरं वसन्तपुरं नाम नगरम्, यत्रो चसौधशृङ्गाप्रजाश्रद्ध्वजपटोचयः । खर्नदीनीरसम्पृक्तो, बुधैरपि न लक्ष्यते ॥ १ ॥ तत्र यथार्थनामा जितशत्रुर्मही महेन्द्रो राज्यं पालयति स्म - यस्यासि: स्वाधिनाथस्य, जगद्विजयसम्भवाम् । प्रशस्तिं शस्तवर्णैधैर्व्यनक्ती व निरन्तरम् ॥ २ ॥