________________
क्त्वोचे तं स दारकः । अप्कायाख्यस्य मेऽप्येवं, बभूव तव संश्रयात् ॥ ३५ ॥ तस्याप्यामोदय स ग्रीवां, गृहीत्वाऽऽभरणानि च । गच्छन् पुरस्तादद्राक्षीत्तेजःकायाह्वयं शिशुम् ॥३६॥ भूषणान्याददानोऽसौ, सूरिस्तेन न्यवार्यत । | ऊचे च कथ्यमानं त्वं, शृणुष्कं कथानकम् ॥ ३७॥ आश्रमे क्वाप्यभून्मूलफलाशी तापसाग्रणीः । अग्मित्रितयमाहुत्या, पोषयामास सोनिश ::३८ । उकालोमागोहीपिना जातवेदसा। दग्धं स खोटजं दृष्ट्वा, तटस्थानूचियानिति ॥ ३९ ॥ यं तर्पयाम्यहं शश्वन्मध्वाज्यैर्जातवेदसम् । स ददाहोटजं मेऽद्य, जातं शरणतो भयम् | ॥ ४० ॥ यहा केनापि हि व्याघ्रभीत्याऽमिः शरणं श्रितः । दग्धं तदहं तेनैव, जातं शरणतो भयम् ॥ ४१ ॥ तन्ममापि प्रभो ! जातममिकायस्य सम्प्रति । विज्ञोऽसीति ब्रुवन् भूपामादात् छित्त्वा स तद्गलम् ॥ ४२ ॥ चतुर्थो । दारकोऽदर्शि, गच्छताऽग्रेऽथ सूरिणा । सोऽप्यूचे मुल्यमाणस्तं, कथामेकां शृणु प्रभो ! ॥४३॥ महाबलः पुमानेको, नीरोगः सुभगाग्रणीः । खातिकागाधपानीयतरणप्रवणः सदा ॥ ४४ ॥ कोऽपि तं वातभमाझं, दण्डधारिणम-13 ब्रवीत् । दृढाङ्गः पूर्वमासीस्त्वमधुना यष्टिभृत्कथम् ? ॥ ४५ ॥ सोऽप्यूचे पवनो योऽभूद्रीष्मत्तौ सुखकृन्मम । भज्यते । | तेन कायोऽयं, जातं शरणतो भयम् ॥ ४६॥ ममापि वायुकायस्य, जज्ञे तत्साम्प्रतं प्रभो! । प्राग्वदेतं प्रजपन्त, सोऽमुष्णाच्छ्रमणब्रुवः ॥४७॥ प्रस्थितोऽग्रे ततोऽद्राक्षीत्पञ्चमं दारकं पुरः । भूषणाच्छेदिनं सूरि, प्रति सोऽप्यवदत |कथाम् ॥ ४८ ॥ खगश्रेणिनिवासस्य, विशालस्य तरोरधः । प्ररूढा तं लता सर्व, वेष्टयामास मूलतः ॥ ४९ ॥