SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ पथ्यदर्शयत् || २० || भूषणैर्भूषितं दृष्ट्वा तं सूरिरजने वने । अध्यायदस्यालङ्कारैर्भोगान् मोक्ष्येतरां हृतैः ॥ २१ ॥ जिघृक्षुर्भूषणान्यस्य यावत्प्रासारयत्करम् | सावसेन बभाषे स, कथामेकां शृणु प्रभो ! ॥ २२ ॥ अलङ्कारास्त्यदायत्ताः, पश्चादपि विभो ! मम । ततः स तेनानुज्ञातः, पृथ्वीकायशिशुर्जगौ ॥ २३ ॥ क्वापि ग्रामे कलाशाली, कुलालः ख्यातिमानभूत् । मृत्तिकोद्भूतभाण्डाद्यैरपुषत्स कुटुम्बकम् || २४ ॥ अन्यदा स खनन् खानिं पतन्त्या च तयाऽधिकम् । समाक्रान्त इति स्माह, तटस्थितनरं प्रति ॥ २५ ॥ अदां यया वलिं भिक्षां, धिनोमि च कुटुम्बकम् । सा मामाक्रामति क्षोणी, जातं शरणतो भयम् ॥ २६ ॥ सोऽहं दस्युभयात्पृथ्वीकायनामा कुमारकः । शरणं त्वां प्रपन्नोऽस्मि, त्वं मां मुष्णासि चाधुना ॥ २७ ॥ रे दारक ! विदग्धोऽसीत्युक्त्वा छित्त्वा च तद्गलम् । सूरिगृहीतालङ्कारैः स्वं पात्रं समपूपुरत् ॥ २८ ॥ प्रस्थितोऽथापरं बालं, स पुरो वीक्ष्य साभृतिम् । तस्य भूषामुपाहतु, करं व्यापारयत्कुधीः ।। २९ ।। सोऽपि प्रतिष्टान्तमेकं वक्तुं प्रचक्रमे । तालाचरः पटुर्वाचाऽभवत्पा| टलनामकः ॥ ३० ॥ विवेश सोऽन्यदा गङ्गां गन्तुमिच्छुः परं तटम् । तस्यां चोपरि वृष्टयाऽभूत्तदा पूरो दुरुत्तरः ॥ ३१ ॥ श्रोतसा हियमाणं तं, तीरसंस्थोऽखिलो जनः । विलोक्याभाषतात्यन्तस्मितपूतरदच्छदः ॥ ३२ ॥ हे प्राज्ञ ! पाटलाभिख्य !, गङ्गा त्वां हते ततः । किञ्चित्सूक्तं पठेतहीत्युक्तस्तैः सोऽप्यवोचत ॥ ३३ ॥ बीजानि येन रोहन्ति, जीवन्ति च कृपीवलाः । म्रियेऽहं तस्य मध्यस्थो, जातं शरणतो भयम् ॥ ३४ ॥ पाटलस्थेति वृत्तान्तमु
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy