________________
स्वं दर्शनं हि नः ॥ ५ ॥ तथेति प्रतिपेदाना, अपि ते खः पुरीं गताः । वैयम्यात्सुरकृत्यानां न ददुर्दर्शनं गुरोः ॥ ६ ॥ एकदैको बहुमतः शिष्यः पुष्यन् विरागताम् । कृताशन परित्यागः, सुरिभिः प्रार्थितो भृशम् ॥ ७ ॥ यत्त्वया वत्स ! वेगेन, गतेन वैदर्श पदम् । अवश्यमेत्य देयं नो, दर्शनं स्वं महाशय ! ॥ ८ ॥ यतिः कृतप्रतिज्ञोऽपि, दिषोऽभ्येत्य न दर्शनम् । गुरुभ्यः प्रददे दिव्यभामिनी भोगलालसः ॥ ९ ॥ स ताज्ञाततत्त्वोऽपि, ही सूरिः कर्मयोगतः व्यचिन्तयदिति व्यक्तं, परलोककथा वृथा ॥ १० ॥ यदि हि स्यात्परो लोको, मच्छिष्याः कृतसङ्गराः । तदैत्य दर्शन दधुस्तस्मान्नास्ति खपुष्पवत् ॥ ११ ॥ शरीरादपरो नास्ति, जीवोऽयं मूढकल्पितः । अत एव मृतः शिष्यो, नादान्मे कोऽपि दर्शनम् || १२ || जीवासद्भावतो नूनं, परलोको न विद्यते । तस्मादयं प्रतक्लेशः, समते कस्य हेतवे ? ॥ १३ ॥ परस्परविरुद्धेस्तु, कृतं मे दर्शनान्तरैः । विधास्येऽतः परं स्त्रीणां दर्शनं निर्वृतेः कृते ॥ १४ ॥ उक्तं च - प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः १ । प्राप्यते येन निर्वाणं, सरागेणापि चेतसा ॥ १५ ॥ द्रव्यलिङ्गि - गणं सुसं, मुक्त्वा दुर्वासनावशात् । निःससार निशायां स ही दुरन्ता विमूढता ॥ १६ ॥ अथ स लुकामः, प्रयुक्तावधिना गुरुम् । मत्वोज्झितत्रतं मार्गे, विचक्रे ग्राममेककम् ॥ १७ ॥ तत्पार्श्वे नृत्यमत्यन्तं कान्तमारभते स्म सः । तत्पश्यन्नेकपादेन, तस्थौ सूरिः स्थिराशयः ॥ १८ ॥ दिव्यप्रभावतस्तृष्णाक्षुधे नैव विदन्नयम् । पण्मासीमतिचक्राम, प्रेक्षणीयधृतेक्षणः ॥ १९ ॥ विसृष्टे प्रेक्षणे चैष, प्रस्थितस्य गुरोः पुरः । बालकं पृथिवीक्रायनामकं
I