________________
***
*
*
श्रावकधर्ममङ्गीकृत्य सूरीश्वरांश्च प्रणिपत्य स्वप्रासादमाससाद । ततः श्रीजिनशासनप्रभावनप्रवणो धरणीरमणो विशुद्धतरं धर्ममारराध । अन्यदा सुधायां सभायां शक्रसिंहासनासीनो विमानवासिसेवितपदद्वयः सौधर्माधीश्वरो धर्मपक्षपाती सर्वसुपर्वसमक्षं नरवर्मनृपतेर्मनसाऽपि सुरासुरैरचालनीयं सम्यक्त्वमुपश्लोकितवान् । ततस्तद्वचःक-| शाप्रहारतः शूकलाच इव सुवेगनामा देव उत्लुस पर्षत्प्रत्यक्षमङ्गुलीमुद्यम्य तन्नियमभङ्गकृतप्रतिज्ञो वैक्रियादिलब्धिदुमंदो मक्कमहीतलमवातरतु । तसिंश्च समये स राजपाटिकायाः प्रतिनिवृत्ताय नरवर्मनपाय यतिजनमाबालगो-17 पालाङ्गनाविगहितं नरकपातुकपातकव्यापारसंसेवनप्रवणं तत्सम्यक्त्वनिश्चलत्वविलोपायादीशत् । राजाऽपि तमसाध्याचारमनगारवारमालोकयन्नाप मनसा मनागपि न विपरिणतिमाप, केवलमिति चाचिन्तयत्-कषादिशुद्धसुवर्णमिव श्रीजिनशासनं सदोषतां कदाचनापि न श्रयति, किन्तु गुरुकर्मत्वाद्विशुद्धेऽपि सितवाससीवाहन्मते मालिन्यमुपजनयन्ति दुवृत्ताः, अतो मया सर्वप्रयत्लेन शासनमालिन्यापोहाय प्रयतनीयमिति विसृश्य सुधाकिरा गिरा नरवरो | दुर्व्यापारात्तान् न्यवारयत् । अथ सुवेगसुरोऽपि तच्छिक्षावैचक्षण्येन सम्यग्दर्शनाचालनीयत्वेन ससीभूतपुरुहूताकूतत्वेन
च रञ्जितः प्रकटीभूय श्रीनरवर्मनृपमुपशुश्लोक-राजंस्त्वमेव धन्योऽसि, यथायाँ यस्य वासवः । वयं हि कुरुते । - श्लाघां, सम्यक्त्वखान्तशुद्धिजाम् ॥ १ ॥ इति निवेद्य स्वशीर्षान्मुकुटमुत्सार्य नृपवर्याय वितीर्य च मागध इव वर्ण
नामुखरमुखो बहिर्मुखो दिवमाससाद । ततःप्रभृति विशिष्य नरवमराट् सम्यक्त्वमूलं गृहमेधिधर्म चिरतरमासेन्य
**