________________
भूरभूनवेतिनिर्णयो विधीयताम्, राजा स्माह-यद्येवं तर्हि वयस्य ! रहस्यमिव तं हारं प्रदर्शय हरिदत्तकुमाराय, ततस्तं क्षितिपतिसुतं सभायामाहूय हारमदीदृशत् , सोऽपि तदवलोकनात्प्रादुर्भूतजातिस्मृतिः साद्यन्तं पूर्वभवखरूपं
मदनदत्तोक्तानुवादमिव नृपपुरो व्याजहार, तदाकर्णनातल्लरमेव माजापि नामतः पूर्व दिवादास्पदीकृतप्रभूतप-15 हैण्डितजल्पकल्पितधर्मविवादच्छेदसानन्दः परमार्थतयाऽऽहतमेव धर्म स्वर्गापवर्गमार्गप्रकाशनप्रदीपप्रायं चेतसि
परिभावयन् यावदभूत् , तावदप्रतर्कितमेवोद्यानपालः समेत्य प्राञ्जलिर्नुपं विज्ञसवान्-देव ! अद्य यथार्थनामनि पुष्पावतंसके भवदुधाने विनयावनतविनेयपरिचर्यमाणचरणसरसीरुहः सुरासुरनमस्कृतश्चतुर्ज्ञानी श्रीगुणन्धरसूरिः समवासरत् , इति निशम्य विशामीशोऽपि तस्मै पारितोषिकं दत्त्वा राजकुअरमारुह्य मित्रपुत्रकलत्रमत्रिप्रभृतिपरिवृतिपरि-14 कृतस्तमाराममागत्य गजराजादुत्तीर्य गुरुपादानभिवन्द्य च यथोचित्तस्थानमुपविष्टो धर्मदेशनामिमामशृणोत्-उच्छेद्यमिथ्यात्वमहत्त्वमुच्चैरासाद्य सद्यो जिनमार्गतत्त्वम् । खर्गापवर्गाद्भुतशर्मदायि, सम्यक्त्वमेवाद्रियतां त्रिशुद्धा ॥ १ ॥
श्रीवीतरागेष्विह देवबुद्धिनिःसङ्गचङ्गे गुरुधीर्मुरौ च । सम्यक्त्वमेतदृपधीश्च धर्म, मिथ्यात्वमेतद्विपरीतमेव ॥२॥ है। सम्यक्त्वनूलामररत्नमेतदाराधयन्ते विशदाशया ये, । दोर्गत्यदोपो हि मियेव तेषामस्पृश्यवन्न स्पृशतीह देहम् ॥ ३ ॥
अन्तर्मुहूर्तमपि ये समुपासतेऽदः, सम्यक्त्वमौपशमिकादिकमादरेण । तेऽपार्द्धपुद्गलमलं न विलयन्ति, तन्मध्य एव च शिवश्रियमाश्रयन्ते ॥ ४ ॥ इति गुरोर्मुखादमृतश्रावदेशीयां देशनामापीयावनीजानिस्तनयसहितः सम्यक्त्वपूर्ण