SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ कल्पवृक्षः किमित्यरजोऽम्बराण्यम्बराणि रजसा रज्यन्ते,तत्प्रसद्य सद्यो वद मदग्रतः, ततो वाचयमोऽपि तं प्रत्युवाचसुरपुङ्गच ! समासन्नतव च्यवनावसरः, सुरोऽपि व्याकरोत्-नाथ ! क्वोत्पत्तिर्मे भवित्री ?, कथं वा मम बोधिवीज-15 लाभः १ अत एव तदपि दमीश्वर ! वद मन्मनस्तुष्टिपुष्टये, ऋषिवरोऽपि व्याजहार-अमरोत्तम! इतो देवभवादेवीं तनुं त्यक्त्वा श्रीनरवर्मनृपतेर्हरिदत्ताभिधानस्तनयो भविष्यसि, ततोऽस्यैव हारस्य दर्शनात्तव बोधः सम्पत्स्यते न संशय इति विगतद्वापरः स सुरः सूरिमानम्य स्वग्ग जगाम । ततस्तु महाराज ! क्षितितलमिलन्मौलिना । मयाऽमुष्यहारस्योत्पत्तिव्यतिकरं परिपृष्टो मुनिप्रष्टो व्याचष्टे-पुरा प्रपश्चितश्रीप्रपञ्चायां श्रीअमरचञ्चायां महानगयो । सागरोपमैकपरमायुरसुराधीश्वरश्चमरेन्द्रः समुदपद्यत, स सकलान्युत्पत्तिकस्यानि कृत्वा लोकपालानीकाधिपतित्रायस्त्रिंशसचिवात्मरक्षप्रमुखपरिकरपरिकरितः स्वसभायां सिंहवसिंहासनमलञ्चकार, तदोर्द्धमवलोकयन् स्वशीर्णोपरि सिंहासनासीनं स सौधर्माधीश्वरं निरीक्ष्य सम्भवदमप्रकर्पोऽसमानविग्रहतया परिकरण निवार्यमाणोऽपि मानी युयु-१ सया प्रथमकल्पं सोऽल्पधीर्जगाम, ततस्तद्भयभ्रान्ते त्रिदशदेवाङ्गनावगर्गे कोपाटोपान्धकारितवक्त्रेण वज्रिणा बने। तस्योपरि मुक्त तद्भिया चाधोमुखे चमरे पलायमाने तद्गलकन्दलादयं हारो धरायामाप तदितो द्वीपादसङ्ख्याततमे, द्वीपे । स च विधिनियोगाद्विद्युत्प्रभधुसदा मत्पूर्वभवभ्रात्रा प्रापे। तेनाप्ययं मह्यं प्रीत्या प्रददे । इत्यहं ज्ञातहार-15 तान्तो गुरुं प्रणस्य पञ्चविंशतिवर्षाणि यावद्भरि भूरि समुपाय॑ नृवर्य ! त्वदन्तिकमागम, स्वामिन् ! स च सुरस्त्वदङ्ग-1
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy